पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । यिता गोष्ठीबन्धानाम्, आश्रयो रसिकानाम्, प्रत्यादेशो धनुष्मता, धौरेयः साहसिकानाम् , अग्रणीविदग्धानाम् , वैनतेय इव विनतानन्दजननः, वैन्य इव चापकोटिसमुत्सारितारांति-- कुलाचलो राजा शूद्रको नाम । नाम्नैव यो निर्भिन्नारातिहदयो विरचितनारसिंहरूपाडम्बरम् , एकविक्रमाकान्तसकलभु- बनतलो विक्रमत्रयायासितं भुवनत्रयं च हंसति स्मेव वासुदेवम् । अतिचिरकाललग्नमति- क्रान्तकुनृपतिसहस्रसंपर्ककलङ्कमिव क्षालयन्ती यस्य कृपाणधाराजले चिरमुवास लक्ष्मीः । यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, भुजे भुवा, दृशि निया, वा- चि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, रूपे मनसिजेन, तेजसि शत्रुलोकस्योत्पातकेतुधूमकेतुः । प्रवर्तयितेति । गोष्टीवन्धानां मधुरकथानां प्रवर्तयिता प्रवर्तकः । आश्रय इति । रसिकानां रसवेत्तृणामाश्रयः आश्रयस्थानम् । प्रत्यादेश इति । धनुष्मतां धनुर्धारिणां प्रत्यादेशो निराकर्ता । 'प्रत्यादेशो निराकृतिः' इति कोशः । सर्वधनुर्धरोत्कृष्ट इत्यर्थः । धौरेय इति । साहसिकानां सत्त्ववतां मध्ये धौरेयो धुर्यः । अग्रणीरिति । विदग्धानां पण्डितानां मध्येऽग्रणीमुख्यः । वैनतेय इति। विनतेभ्यः कृतनतिभ्य आनन्दस्य प्रमोदस्य जननः कर्ता । क इव । वैनतेय इव सुपर्ण इव । सोऽपि विन- तायाः खमातुः प्रमोदकृत्स्यादित्युगयोः साम्यम् । चैन्य इवेति । चापो धनुस्तस्य कोटिरग्रभागस्तेन समुत्सारिता निराकृता अरातय एव शत्रव एव कुलाचलाः कुलपर्वताः क्षेत्रसीमावर्तिपर्वता येन रा तथा । क इव । वैन्य इव पृथुराजेव । एतत्पक्षेऽरातयः कुलाचलाश्चेति द्वन्द्वः । शेपं पूर्ववत् । पृथुना पूर्व पर्वताकीर्णा धरित्रीं विलोक्य धनुःकोट्या पर्वतानुत्सार्य भूः समीकृतेति पुराणम् । नाम्नेति। यः शूद्रको वासुदेवं श्रीकृष्णं हसति स्मेव हास्यं चकारेव । कथंभूतः । नाम्नेवाभिधानश्रवणमात्रेणैव निर्भिन्नानि द्वैधीकृतान्यरातीनां शत्रूणां हृदयानि वक्षांसि येन स तथा। कीदृशं वासुदेवम् । विरचितेति । विर- चितो विहितो नारसिंहरूपलक्षण एवाडम्वर आटोपो येन स तथा तम् । एकेति । एकेनाद्वितीयेन विक्र- मेण पराक्रमेणाक्रान्तं व्याप्त सकलं समग्रं भुवनतलं विष्टपतलं येन स तथा । कथंभूतं वासुदेवम् । विक- मेति । विक्रमः पादविक्षेपस्तन्य त्रयं त्रितयं तेनायासितं संप्राप्तखेदम् । 'आसितम्' इति पाठ आसितं स्थितम् । अत्राय भावः---अस्य राज्ञो नामश्रवणादेव वक्षोविदारणं भवति । वासुदेवेन तु शत्रुवक्षोविदा. रणे नृसिंहावताराडम्बरं कृतम् । राज्ञा चैकेनैव विक्रमेण पराक्रमेण सर्वं जगदाक्रान्तम् । वासुदेवेन तु भुवनाक्रमणाय विक्रमत्रयं कृतमिति हास्ये हेतुः । अतीति । यस्य कृपाणधाराजले खाधारारूपे जले चिरं बहुकालं यावलक्ष्मीः पद्मोवास वसतिं चके । खड्गबलालक्ष्मीः खवशीकृतेति भावः । किं कुर्वतीव । क्षालयन्तीव प्रमार्जयन्तीय । कम्। अतीति । अतिचिरकालो भूयानतीतः कालः समयस्तेन लग्नं जातम् पुनः कीदृशम् । अतीति । अतिक्रान्ता व्यतीता ये कुनृपतयः कदर्य नरपतयस्तेषां सहनं तेन संपर्कः संबन्धस्तेन यः कलङ्कोऽभिज्ञानम् । अन्योऽपि पकादिकं जलादिना क्षालयतीति ध्वनिः । यश्चेति । यः शूद्रको भगवतो