सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । मित्र केंद्राक्षवलयग्रहणनिपुणम, शिशिरसमय सूर्यमिव कृतोत्तरासङ्गम्, वंडवानलमिव संत- तपयोर्भेक्षम्, शून्यनगरमिव दीनानाथविपन्नशरणम् पशुपतिमिव भस्मपाण्डुरोमालिष्टश- रीरं भगवन्तं जावालिमपश्यम् । अवलोक्य चाहमचिन्तयम् - 'अहो प्रभावस्तपसाम् । इयमस्य शान्तापि मूर्तिरुत्तप्त तप्तकन- कावदाता परिस्फुरन्ती सौदामिनीव चक्षुपः प्रतिहन्ति तेजांसि | सततमुदासीनापि महाप्र- भावतया अयमिवोपजनयति प्रथमोपगतस्य । शुष्कनलकाशकुसुम निपैतिततानलचटुलवृत्ति नित्यमसहिष्णु तपस्विनां तनुतपसामपि तेजः प्रकृत्या भवति । किसुत सकलर्भुवनतलवन्दि- तचरणानामनवरतर्तपःपित्तमलानां करतलासलैकवदखिलं जगदालोकयतां दिव्येन चक्षुषा 9 अम्बिका पार्वती तस्याः करतलं पाणितलं तद्वदिव रुद्राक्षः फलविशेषस्तद्वलयस्य कटकस्य यद्रहणं तत्र नि- पुणम् । सर्वदा तदावर्तनेन कृताभ्यासमित्यर्थः । पक्षे रुद्र ईश्वरस्तस्याक्षमिन्द्रियं लोचनं वर्तुलवादेव यद्वलयं तस्य ग्रहणं विधानं तत्र निपुणं चतुरम् | रते चन्द्रकला प्रकाशस्यानिवार्यत्वेन लजावशात्माया तृतीयं लोचनं कर- तलेन पिहितमिति भावः । शिशिरेति । शिशिरसमय शेषकालस्तस्य यः सूर्या भगवांरतद्वदिव कृतो वि- हित उत्तराको वृहतिका येन स तम् । पक्ष उत्तरस्या दिशः सः संपोनेति विग्रहः । वडवेति । वडवानल ऑर्वस्तमित्र संततं निरन्तरं पथ एन क्षीरमेव मक्षं यस्य स तम् । पक्षे पयः पानीयं तदेव भक्षं य स्येति भावः । शून्येति । शून्यमुद्रुषितं यन्नगरं पुरं तद्वदिव | शून्ये धनिनां निवासायोग्यताहीनादि- ग्रहणम् । तत्र दीनान्यशोभावन्लनाथान्यप्रभूणि विपन्नान्यविद्यमानभावानि शरणानि गृहाणि यत्र नगर इति । अन्यत्र दीना दुःखाभिभूता अनाथाः खामिरहिता विपन्ना इव विपन्ना मृतकल्पा व्याव्यादिपरिभूतास्तेषां शरणं परित्रातुम् । पशुपतिमिवेति । पशुपतिः शंभुस्तमित्र भस्मवत्पाण्डुराण्यति वार्धक्यातानि रोमाणि तैराश्लिष्टं शरीरं यस्य स तम् । पक्षे भन्मवत्पांडुरोमा गौरी तया चाटिमकृतं शरीरं यस्येति विग्रहः | अन्वयस्तु प्रागेवोक्तः । जावालिं निरीक्ष्य किं कृतवानिलाह- अवलोक्येति । अवलोक्य निरीक्ष्य | व पुनरथे | अग चिन्तयमेवं विचारितवान् । चिन्तां त्वेनं चिन्तयन्तमेव मामिलावधिकम् । तामेवाह - अहो इत्याश्चर्ये । तपसां प्रभावो माहात्म्यम् । इयमस मुनेः शान्तापि मूर्तिः शरीरमुत्प्रावल्येन तप्तमुष्णीकृतं यत्कनकं सुवर्ण तद्वदवदाता निर्मला परिस्फुरन्ती देदीप्यमाना सौदामिनीव विद्युदिव चक्षुपो नेत्रस्य तेजांसि महांसि प्रतिहन्ति प्रतिघातं करोति । आभिमुख्येन गच्छन्तीनां जयनरश्गीनां वलवद्वेगसौदामिनी- तेजसा प्रतिनिवृत्तिरनुभवद्भिवति भावः । इदं भाववर्णनम् । विरोधोऽपि शान्तस्योत्तप्तकनकावदाततेति विरोधः | सततेति । सनतं निरन्तरमुदासीनापि मध्यस्थापि महाप्रभावतयात्युग्रप्रतापतया प्रथमोपग- तस्यापूर्वागतस्य मयमिव भीतिमेवोपजनयति । अन्येषां करोतीत्यर्थः । अत्रापि मध्यस्थस्य भयोत्पादकल- धन