पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ कादम्बरा । सुगन्धिनिश्वासावकृटैमूर्तिर्भद्भिः शापाक्षरैरिव सदा मुखभागसंनिहितैः परिस्फुरद्भिरलिभिर- विरहितम्, अतिकृशतया निम्नतरगण्डगर्तर्मुन्नततरहनुघोणमाकरालत (रकमवशीर्यमाणविरल- नयनपक्ष्ममालमुद्तदीर्घरोमरुद्धश्रवणविवरमानाभिलम्बकूर्चकलापमाननमादधनम् , अति- चपलानामिन्द्रियाश्वानामन्तःसंयमनरज्जुभिरिवतताभिः कण्ठनाडीभिर्निरन्तरवनद्धकन्धरं सैमुन्नत विरयास्थिपञ्जरमंसावलम्बैियज्ञोपवीतं बँयुवशजनिततनुतरंगभङ्गमुशलवमाननृणाल- मिव मन्दाकिनीप्रवाहमकलुषमङ्गमुद्वहन्तम्, अमलस्फटिकशकलैंघटितमक्षवलयमनूज्ज्वल स्थूलमुक्ताफळम्रथितं सरस्वतीहारमिव चलदङ्गुलिविवरगतमावर्तयन्तम् अनवरतप्रमितत- रकाचक्रमपरमिव ध्रुवम्, उँनेमता शिराजालकेन जरत्कल्पतरु मिव परिणतलतासंचयेन निः मुदीर्णा । ततो जाह्नवीत्युच्यते । मुखनिश्वासस्य सौरभ्यातिशयप्रदर्शनद्वारा तमेव विशिनष्टि -अनवरते त्यादि । अनवरतं यः सोमपानस्योद्वारस्तेन सुगन्धी यो निर्यासः पवनस्तेनावकृष्टैराकर्षितैमूर्तिमद्भिर्देह यद्रिः षाक्षरैरिव शापवणैरिव । सदेति । सदा सर्वकालं मुखस्य यो भागोऽग्रिमग्रदेशस्तत्र संनिहितैः पार्श्वगैः परिस्फुरद्भिद्यमानैरलिभिीमरैरविरहितमवियु तमाननं मुखमादधानं बिभ्राणम् । अथ मुखविशेषणानि- अतीति । अतिकृशतया निम्नतरो गम्भीरतरो गण्डगर्तः कपोलतः परो भागो यस्य तत् । उन्नतेति । उनसतरेऽयुचे हनु चिबुकं घोणा नासा च यस्मिस्तत् । अतिवृद्धलक्षणमेतत् । आकरलेति । आकरालेप द्वनं तारका कनीनिका यस्य तत् । अत्रेति । अवशीर्यमाणा क्षीयमाणा विरलनिबिडा नयनयोर्नेत्रयोः पक्ष्म माला रोमराजिथेसिंगस्त । उन्नतेति । उन्नतानि प्रादुर्भूतानि यानि दीर्घरोमाणि तेन रुद्धमावृतं श्रवणयोर्विवरं रन्थं यस्मिस्तम् । आनभीति । आनाभि नाभिपर्यन्तं लम्वः प्रलम्बः कूर्चकलाप आयलोमसमूहो यासं तत् । अतीति । अतिचषलानामतिपारिप्लवानामिन्द्रियाश्वानां करणतु रंगमनामन्तर्मध्ये संयमनरजुमिरिव निः यन्त्रणरश्मिभिरिवातताभिर्विस्तीर्णाभिः कण्ठनाडीभिर्गलनायुभिरिव निरन्तरं अवनद्ध संबद्धा कन्धरा ग्रीवा यस्मिनेवंविधमकर्यं निर्मलमहं शरीरमुद्वहन्तं धारयन्तम् । समुन्नतेति । समुन्नतमुचं विरलं पेलवमस्थिपः जरं कङ्कालं यस्मिंस्तत्तथा। अंसेति । अंसावलम्बि भुजान्तरावलम्वि यज्ञोपवीतं यज्ञसूत्रं यस्मिन् । वयुव- शेनेति । वायुवशेनानिलमाहात्म्येन जनिता उत्पादितास्तनवः सूक्ष्मास्तरंगभङ्गः कल्लोलविघटनानि यस्मिन्। उप्लबेति । उप्रावल्येन प्लवमनानि वहमानानि मृणालानि बिसानि यस्मिनेवंभूतं मन्दाकिनीं प्रवाहमिव ग धूमिव । अत्र तरंगास्नोः वैतकृशत्वं यज्ञोपवीतमृणालयोश्च श्वेतसूक्ष्मत्वं साधम्र्थमि भावः । किं छू वन्तम् । अक्षयलयं रुद्राक्षमालमावर्तयन्तं परिवर्तयन्तम्। अथाक्षवलयस्य विशेषणे –अमवेति । अमलानि विशदानि यानि स्फटिकशकलानि तैर्घटितं निर्मितम् । अत्युज्यलेति । अयुग्मलान्यतिविशदानि स्थूलानि यानि मुक्ताफलानि मौक्तिकानि तैर्गथितं गुम्फितं सरस्वतीहारमिव सरस्खया भारत्या हारमिव मुक्ताकलाप मिव । अत्र स्फटिकाक्षवलयस्यातिनिर्मलत्खान्मुक्ताफलोपमानम् । चलेति । चलन्यो या अङलयतासां विवरं रन्थं तत्र गतं प्राप्तम् । अनवरतेति । अनवरतं निरन्तरं भ्रमितं पर्यटितं तारकाचकं नक्षत्रसमूहो यस्मि