पूर्वभागः। पिनी बलवती पिपासा परवशमकरोन् । अनया च कालकलया सुंदूरमतिक्रान्तः स पापकृ. दिति परिकलय्य किंचिदुन्नमितकन्धरो भयचकितया दृशा दिशोऽवलोक्य तृणेऽपि चलति पुनः प्रतिनिवृत्त इति तमेव पदे पदे पापकारिणमुत्प्रेक्षमाणो निष्क्रम्य तस्मात्तमालतरुतल. मूलात्सलिलसमीपं सतु प्रयत्नमकरवम् । अजातपक्षतया नातिथिरतरचरणसंचारस्य मुहुर्मुहुर्मुखेनं पततो मुहुस्तियट्रिपतन्तमात्मा- नमेकया पक्षपाल्या संधारयतः क्षितितलसंसर्पणभ्रमातुरस्थानभ्यासवशादेकमपि दत्त्वा पद- मनवरतमुन्मुखस्य स्थूलस्थूलं श्वसतोधूलिधूसरस्य संसपतो मैम समभून्मनसि---'अतिकष्टा- स्ववस्थास्वपि जीवितनिरपेक्षा न भवन्ति खलु जगति प्राणिनां प्रवृत्तयः । नास्ति जीविता- दन्यदभिमततरमिह जगति सर्वजन्तूनामेव', उपरतेऽपि सुगृहीतनाम्नि ताते यदहमविकले- न्द्रियः पुनरेव प्राणिमि । धिङ्मामकरुणमतिनिष्टुरमकृतज्ञम् । अहो सोढपितृमरणशोकदा- अतीति । अतिदूरापाताद्दविष्टतरप्रदेशपतनात् । तद्वृक्षादिति शेषः । आयासितं परिश्रमितं शरीरं यस्य स तम् । तृपं विशेषयन्नाह-संत्रासेति । संत्रासेन भयेन जाता समुत्पन्ना । सर्वेति । सर्वाणि समग्राण्य- झानि हस्तप्रभृतीन्युपतापयति पीडयतीत्येवंशीला बलवती वलोपयुक्ता । अनयेति । अनया कालकलया घटिकया स पापकृद्भिः सुदूरं दूरदेशमतिकान्तो गत इति परिकलय्य चेतसि परिकलनां कृत्वा । किंचिदिति। किंचिदीषदुन्नमितोवीकृता कन्धरा ग्रीवा येन स तथा । भयेति । भयेन भीला चकिता बरता याक्तया दिशोऽवलोक्य निरीक्ष्य तृणेऽपि यवसेऽपि चलति कम्पति सति पुनः प्रतिनिवृत्तः प्रत्यागत इति तमेव शवर. भेव पदे पदे पापकारिणं कल्मषकारिणमुत्प्रेक्षमाण उत्पश्यमानो निष्क्रम्य बहिर्निगत्य । कस्मात् । तस्मा- त्तमालतरुतलमूलात्तापिच्छवृक्षाधःस्थलात्सलिलसमीपं जलोपान्तं सर्तुं गन्तुं प्रयत्नं प्रयासमकरथमकार्षम् । अथ च मम मनस्येवमभूदित्यन्वयः । तं विशेषयनाह---अजातेति । अजातावनुत्पन्नौ यो पक्षी छदौ तयोर्भावस्तत्ता तया न विद्यतेऽतिस्थिरतरश्चरणयोः क्रमयोः संचारः स्थापनयोग्यता यस्य स तथा तस्य किं कुर्वतः । मुहुर्मुहुर्वारंवार मुखेनाननेन पततः पतनं कुर्वतः । मुहुवारंवारं तिर्यक्तिरश्चीनं निपतन्तं भ्र- श्यन्तमात्मानमेकया केवलया पक्षपाल्या छदसंहत्या संधारयतः पतनाद्रक्षां विदधतः । क्षितीति । क्षि- तितले संसर्पण गमनं तस्माद्यो भ्रमो भ्रान्तिस्तेनातुरस्य पीडितस्य । अभ्यालेति । अभ्यासः पुनः पुनः करणं तदभाववशादेकमपि पदं वरणं दत्त्वा निवेश्यानवरतं बहुकालमुन्मुखस्योवाननस्य स्थूलस्थूलं यथा स्यात्तथा श्वसतः श्वासमोक्षणं कुर्वतः । एतेनैकपदस्थापनेऽपि श्रमबाहुल्यं व्यज्यते । धूली रेणुस्तया धूरारस्य धूम्रवर्ण- स्य । किं कुर्वतः । संसर्पतः प्रचलतः। चिन्तां विवृणोति-ममेति। मम मनस्येवं समभूत् । तदेव दर्शयति- खल्विति । खलु निश्चयेन जगति लोकेऽतिकप्टमतिकृच्छं यास्वेवं विधास्ववस्थासु दशासु प्राणिनां जीवानां प्रवृत्तयः प्रवर्तनरूपाः क्रिया जीवित प्राणितं तत्र निरपेक्षा गतस्पृहा न भवन्ति न स्युः । इह जगत्यस्मिंल्लोके
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६९
दिखावट