कादम्बरी। विप दिग्धमुखा भुजंगा इव सायकाः, गीतमुत्साहकारि मुग्धमृगाणाम् , कलत्राणि न्दीगृ- हीताः परयोपितः, ऋरात्मभिः शार्दूलैः सह संवासः, पशुरुधिरेण देवतार्चनम्, मांसेन बलि- कर्म, चौर्येण जीवनम, भूपणानि भुजंगमणेयः, वनकरिमदैरङ्गरागः, यस्मिन्नेव कानने नि- वसन्ति तदेवोत्खातमूलमशेषतः कुर्वते' इति चिन्तयत्येव मयि शैबरसेनापतिरटवीभ्रंमण- समुद्भवं श्रममपनिनीपुरागत्य तस्यैव शाल्मलीतरोरधश्छायायामवतारितकोदण्डस्त्वरितपरि- जनोपनीतपल्लवासने समुपाविशत् । अन्यतरस्तु शवरयुवा ससंभ्रममवतीर्य तस्मात्करयुगल- परिक्षोभिताम्भसः सरसो वैडूर्यद्रवानुकारि प्रलय दिवसकरकिरणोपतापादम्बरैकदेशमिव विलीनम्, इन्दुमण्डलादिव प्रस्यन्दितम् , द्रुतमिव मुक्ताफलनिकरम् , अत्यच्छतया स्पर्शानु- भुजंगाः सर्पा इव । एतेषां विपदिग्धमुखत्वं खाभाविकम् । तेपामौपाधिकमिति भावः । गीतमिति । मुग्धा अनभिज्ञा ये मृगा हरिणास्तेपामुत्साहकारि स्तब्धताविधायि गीतं गानम् । कलत्रेति । परयोषितोऽन्यस्त्रिय एव वन्दी ग्रहकस्तद्रूपत्वेन गृहीताः स्वीकृताः कलत्राणि स्वपत्न्यः । क्रूरेति । क्रूरात्मभिर्दुष्टात्मभिः शार्दूलै- चित्रकैः समं संवासः सहावस्थानम् । पश्चिति । पशवो महिषास्तेपो रुधिरेण रक्तेन देवतार्चनं देवपूजनम् । मांसेनेति । मांसेन पिशितेन बलिर्हन्तकारतत्कर्म तत्कृलम् । चौर्यणेति । चौर्येण परद्रव्यापहारेण जीवनं प्राणधारणम् । भूपणानीति । भूपणान्याभरणानि भुजंगमणयः सर्परत्नानि । पर्वतयासित्वात्तेषां ते सुलभा इति भावः । वनेति । वनकरिणामरण्य हस्तिनां मानवारिभिरङ्गरागो विलेपनम् । यस्मिन्निति । यस्मिन् अनिर्दिष्टनामनि कानने वने निवसन्ति निवासं कुर्वन्ति तदेव काननमशेपतः समग्रत उत्खातमुत्पा- टितं मूलं मध्यभागो यस्यवंभूतं कुर्वते विदधत इति पूर्वोक्तप्रकारेण मयि चिन्तयति ध्यायति सत्येव स शवरसेनापतिस्तस्यैव शाल्मलीतरोरधश्छायायामागस । त्वरितेति । त्वरितं शीघ्रं परिजनेन परिच्छदे- नोपनीतमानीतं यत्पलवासनं किसलयासनं तस्मिन्समुपाविशत्तस्थिवान् । किं कर्तुमिच्छुः । अपनिनीषुः अपनेतुं दूरीकर्तुमिच्छुः । कम् । श्रमं खेदम् । एतदेव विशेषय नाह~ अटवीति । अटव्यां भ्रमणमितस्ततः पर्य- टनं तम्मात्रामुद्भवं रामुत्पनम् । सेनापति विशेषयनाह-अवेति । अवतारितं अनधिज्यं कृतं कोदण्डं धनुर्यन स तथा । तु पुनरर्थे । अन्यतरः कश्चिदनिर्दिष्टनामा। शबरचासौं युवा चेति कर्मधारयः । न तु श- वराणां युवेति निर्धारणे पट्या समासः । 'न निर्धारण' इति षष्ट्या सह समासनिषेधात् । रासंभ्रमं सवेगम- बतीय तदन्तः प्रविश्य तस्मात्पम्पाभिधानात्सरसः कासारात्कमलिनी नलिनी तस्याः पत्रपुटेनाम्भः पानीयं तथा धौतः क्षालितः पङ्कः कर्दमो यासां ता अतएव निर्मला विशदा या मृणालिकाः कमलिन्यस्ताश्च समुपाह- रदानीतवानित्यन्वयः। सरो विशिनष्टि-करेति। करयुगलेन हस्तद्वयेन परिक्षोभित विलोडितमम्भः पानीयं यस्य तत्तथा तस्मात् । अथाम्भो विशेषय नाह---चैडूर्यति । वैश्य वालवायनं तस्य द्रवः कल्कस्त दनुकारि तत्सम । अत्यच व तदा मा मप्रलयति।प्र यस्य क तस्य यो दिवसकरःसर्यस्तस्य किकि.
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६४
दिखावट