कादम्बरी। तानेकमहानागदशनम्, भीष्ममिव शिखण्डिशत्रुम, निदाघ दिवसमिव सतताविर्भूतभृगतृ- णम्, विद्याधरमिव मानसवेगम, पाराशरमिव योजनगन्धानुसारिणम् , घटोत्कचमिव भी- मरूपधारिणम् , अचलराजकन्यकाकेशपाश मिव नीलकण्ठचन्द्रकाभरणम, हिरेण्याख्यदानव- मिव महावराहदंष्ट्राविभिन्नवक्षःस्थलम् ,अतिरागिणमिव कृतबहुकुन्दीपरिग्रहम,पिशिताशनमि- व रक्तलुब्धकम् , गीतकलाविन्यासमिव निपादानुगतम्, अम्बिका त्रिशूलमिव महिपरुधिराद्र- कायम, अभिनवयौवनमपि क्षपितबहुवयसम, कृतसारमेयसंग्रहमपि फलमूलाशनम , कृष्णम- उद्धृता उत्पारिता अनेकेपां महानागानां बहुमहाहस्तिनां दशना दन्ता येन स तथा तम् । पक्ष उ. द्धृता मुखानिष्कासिता अनेकमहानागानां महाभोगिनां दशना दन्ता येनेति विग्रहः । भीमेति । भाप्मो गाङ्गेयस्तमिव । उभयोः सादृश्यमाह--शिखण्डीनि । शिखण्डिनो वहिणम्तेपां शत्रुम् । तद्धकारिलात । पक्षे शिखण्डी पाण्डवपक्षीयो वर्षधरस्तस्य शगुं विपक्षम् । निदाघेति । निदाचा ग्रीष्मकालरतस्य दिवस- मिव दिन मिव । उभयोः साम्यमाह-सततेति । मततं निरन्तरं बनादाविभूता प्रकटीभूता ये मृगा हरिणा. स्तेपु तृष्णा हननेच्छा गम्य रा तम् । पक्ष आविर्भूता प्रकटिता मृगतृष्णा मरीचिका ये विनि विग्रहः । विद्येति । विद्याधरो व्योमगरतद्वदिव । उभयोः साम्याथमाह---मानसनि । मानेनाहंकारेण गवेगः सर्वदा तीव्रगतिः । पक्षे गानसे मानसानिधाने गरसि गतिर्गमनं यगति विग्रहः । पानि । पारालगे व्यागम्नशिया । उभयोः सादृश्यमाह-योजनेति । योजनं गन्धो विद्यते गरिमनिल्यशादिखादप्रत्ययः । योजनगन्धः कस्तूरीमृगस्तमनुसरतीत्येवंशीलः रा तम् । योजनगन्धा शीनं तमनुसारिणगिति वा । पक्षे व्यासमातरि । 'कस्तुरीशीतयोश्च' इति कोशः । घटेति । घटोत्कचा हिडिम्बा मुतस्तमिव । उभयोः गाहश्यमाह--भीमति। भीमं भयकारि यद्रूपं तद्धारिणम् । पक्ष भीमम्य वृकोदरस्य रूपमाकृतिस्तद्धारिणम् । तत्पुत्रत्वात । अचलेति। अचलराजो हिमाचलस्तस्य कन्यका पार्वती तस्याः केशपाशः केशकलापामिव । उभयोस्तुल्यतामाह- नीलेति । नीलकण्ठो मयूरस्तस्य चन्द्रका मेचकास्तेपामा समन्ताद्भरणं धारणं यग्मिन्स तथा तम् । पक्षे नील. कण्ठो महादेवस्तस्य यश्चन्द्र एव चन्द्रकस्तदेवाभरणं यस्मिन् । अर्धनारीत्वादिति भावः । हिरण्येति । हिर- ण्याख्यो हिरण्यकशिपुः दानवः दैत्यस्तमिव । उभयोः साम्यं दर्शगनाह--गहेति । महावराहा वनसूक- रास्तेपां दंष्ट्रा दादास्ताभिविभिन्नं विहितक्षनं वक्षःस्थलं भुजान्तरं यस्य स तथा तम् । द्वितीयपक्ष भगवता - प्णेन महावराहरूपमाधाय हिरण्यकशिपविक्षःस्थलं विदारितमिति प्रसिद्धिः । अतीति । अतिरागिणम तिरा. गाभिभूतमतियशोभिलाधुकं तमिव। उभयोस्तुल्यतामाह-कृतेति । कृतो विहितो बहुबन्दीनां ग्रहाणां परि सामस्त्येन ग्रहो येन स तम् । पक्षे कृतो वहुवन्दिना वैतालिकानां परिग्रहः स्वीकारो गेनेति विग्रहः । लेषे स्वरो न गण्यते' इति ह्रस्वदीर्वार्थः श्लेपः । पिशितेति । पिशिनाशनो मांसभक्षकस्तद्वदिव । उभ- योस्तुल्यत्वमाह-रक्तेति । रक्ता अनुरक्ता लुब्धका व्याधा यस्मिन्स तथा तम् । पक्षे रक्ते रुधिरे लुब्ध एव लुब्धकः । सस्पृह इत्यर्थः । गीतेति । गीतकला गेय विज्ञानं तया विन्यासो रचना तमिव । उभयोः
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/६२
दिखावट