पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकाबेगो बिगतनिमेषेण चक्षुषाविष्ट इव द- तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेषं तत्सर्वमश्रौषीत् | श्रुत्वा च तमनेकचिह्नोत्पादितप्रत्ययमश्रद्धेयं च निरतिशयशोककारणं च विस्मयास्पदभूतं च दु:- श्रयं च कौतुककरं च युवराजवैशम्पायनयोर्वृत्तान्तमीपदिव विवर्तिताननो विमर्शस्ति मित- तारकां दृष्टिं निर्विशेषावस्थे शुकनासमुखेऽभ्यपातयत् | सुहृदस्तु स्वयं दुःखिता अपि नि- धानीकृत्यात्म दुःखं सुहृद्दुःखापनोदायैव यैतन्ते । यतः शुकनासस्तदवस्थोऽपि स्वस्थवदवनिप तिमुवाच – 'देव, विचित्रेऽस्मिन्संसारे संचरत्सु, सुखदुःखमयेषु देवासुर तिर्यग्योनिमांनुषेषु त्रिगुणात्मनः प्रधानस्यापि 'परिणामात्परमाण्वादेर्ब्रह्माण्डपर्यन्तस्योत्पत्तिस्थितिप्रलयकारणस्ये- श्वरस्येच्छया धर्माधर्मसाधनानामिष्टानिष्टफलसंबन्धकारिणां कर्मणां वा शुभाशुभानां विपीक- भावाद्वा स्वयमेवानेकप्रकारमुत्पद्यमानस्य तिष्ठतो विनश्यतो वानियतवृत्तेः स्थावरजङ्गमस्य न कदाचिदवस्था सा या न संभवृति । तत्कुतोऽयं देवस्थात्र वस्तुनि विमर्श: । यदि युक्ते- ५६६ तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाचर्येणान्तरितो व्यवहितः शोकावेगो यस्य स तथा विगतनिमे- षेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेषणम् | तेन त्वरित केन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा- कृतं च निरवशेषं तत्सर्वमश्रौषीदा कर्णयामास | अनेकचिहैरनेकाभिज्ञानैरुत्पादितो जनितो निष्पादितः प्र. त्ययो विश्वासो यस्य स तम् । अश्रद्धेयं श्रद्धातुमयोग्यं च निरतिशयो भूयान्यः शोकः शुक्तस्य कारणं निदानं च विस्मयस्य कौतुकस्याश्चर्यस्यास्पदभूतं पात्रभूतं स्थानभूतं च दुःनवं च दुःखेन कष्टेनाकर्णनीयं च कौतुककरं च विस्मयकरं चाश्चर्यकरं चैवंविधमेतादृशं युवराजवैशम्पायन योर्वृत्तान्तमुदन्तं श्रुत्वा चाकर्ण्य चेषदिव विव- तितं पराङ्मुखीकृतं पश्चान्मुखीकृतमाननं मुखं येन सः । राज्ञो विशेषणम् । विमर्शो विचारो वितर्कस्तेन स्ति- मिता निश्चला तारका कनीनिका यस्यामेवंविधामेतादृशीं दृष्टिं दृशम् । निर्गतो विशेषो यस्याः सा निर्गतविशेषा। एवंविधावस्था दशा यस्य स तथा तस्मिन् । स्वसदृशावस्थ आत्मसदृशावस्थे शुकनासमुख आननेऽभ्यपात यदस्थापयत् । यतः कारणात्सुहृदयस्तु स्वयं दुःखिता अध्यात्मदुःखं निधानीकृत्य सुहृदां मित्राणां दुःखस्य सु हृदां कष्टस्यापनोदायैव दूरीकरणायैव यतन्ते यत्नं कुर्वन्ति । अतः शुकनासस्तदवस्थोऽपि स्वस्थवन्निःशोकवदव- निपति॑ राजानमुवाच । किं तदित्याह — देवेति । हे देव, विचित्रे बहुविधेऽस्मिन्संसारे संचरन्ति परिभ्रमन्ति यानि यानि सुखदुःखानि तैर्निष्पन्नेषु तन्मयेषु देवा भवनपत्यादयः, असुरादयोऽधोवासिनः, तिर्यग्योनिकाः शुका- मृत्युलोके मानवा मनुष्या नराः, एतेषां द्वंद्वः । तेषु त्रिगुणाः सत्वजस्त मोरूपास्त एवात्मा स्वरूपं यस्यैवंभू तस्य प्रधानस्यापि मूलप्रकृतेराद्यस्वभावस्थापि परिणामात्परिण मनात्परमाणुर्निरवयवोऽवयवरहितः क्रियावान्स आदौ प्रथमं यस्यैवंभूतस्य ब्रह्माण्ड पर्यन्तस्योत्पत्तिर्जन्म । 'उत्पत्तिर्जन्मजनुषी' इति हैमः । स्थितिरवस्थानं स्थिर- भूतं प्रलयः क्षयो विनाश एतेषां सर्वेषां कारणस्य निदानभूतस्येश्वरस्य महादेवस्थेच्छया कृत्यास्पृहया | धर्मोऽ- दयः, $60-2