पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५३३ वेयमेकपद एवेशी निष्ठुरता जाता। क सा गुरुजनस्योपरि भक्तिर्यदेवमनपेक्ष्य प्रयासि' इत्युक्तवत्यवनितलविभुक्तात्मन्यारटति परिजने, तैदाकर्णनोत्कर्णे ' हा हा, किमेतत्' इत्युद्धान्त- मनसि समापतति राजपुत्रलोके, समुत्प्लुतोत्पक्ष्मनयनदर्शिनि चन्द्रापीडवदन निवेशित शि दीनतरहेपारवकृताक्रन्दे शुचेव पर्यायोत्क्षिप्तखुरचतुष्काहतक्ष्मातले मुहुर्मुहुरात्मोन्मोचनाये- बाच्छोदितखरखलीनकनकशृङ्खलायोगे तुरंगमतां मुमुक्षतीवेन्द्रायुधे, पत्रलेखानिवेदितचन्द्रा- पीडागमना चन्द्रोदयोल्लासिनी वेलेव महोदधेः समकरध्वजा व्याजीकृत्य महाश्वेतादर्शनं मातापित्रोः पुरःप्रतिपन्नशृङ्गारवेषाभरणा रणन्नूपुरयुगेन सुखरमेखलादाम्रा रम्योजला- कल्पेन कल्पितानङ्गबलविभ्रांन्तिना गृहीत सुरभिमाल्यानुलेपनपटवासा चुपकरणेन नातिबहुना परिजनेनानुगम्यमाना पुरः केयूरकेणोपदिश्यमानमार्गा पत्रलेखाहस्तावलम्बिनी मदलेखया सहकृतालापा 'मदलेखे, पत्रलेखा कथयति भैसहमहं पुनस्तस्यैकान्तनिष्ठर हृदयस्य शठमते- १० १२ निर्घृणमनसो निस्पृहागमनमेव न श्रद्दधे | किं न स्मरसि तत्तस्य मदवस्थामश्रद्दधानस्य । क्यसहायः क्व प्रस्थितः क्व चलितोऽसि । कुतः कस्मात्तवेयमेकपद एव सहसैवेशी निष्ठुरता कठिनता जाता । क्व सानिर्वचनीयस्वरूपा गुरुजनस्योपरि पूज्यलोकस्योपरि भक्तिराराध्यत्वेन ज्ञानं श्रद्धा वा । 'श्रद्धारचनयो- र्भक्तिः' इत्यमरः । यद्यस्मादेवं ताननपेक्ष्यानादृत्य प्रयासीत्युक्तवत्यवनितले विमुक्तो न्यस्त आत्मा येन स तस्मिन्नेवभूते परिजन आरत्याकन्दं कुर्वति सति । तस्याकर्णनं श्रवणं तेनोत्कर्ण ऊर्ध्वकृतश्रवणे । हा हा इति खेदे । किमेतदेत त्किमित्युद्धान्तं व्याकुलं मनो यस्य स तस्मिन्नेवं भूते राजपुत्रलोके समापतति समागच्छति सति । समृते नम्रीभूते उत्पक्ष्मणी ययोरेवंभूताभ्यां नयनाभ्यां पश्यतीत्येवंशीलः स तथा तस्मिन् | चन्द्रापीडस्य वदने मुखे निवेशिता स्थापिता दृग्येन स तथा तस्मिन् दीनतरं यथा स्यात्तथा हेपारवेण हेषाध्वनिना कृत आक्रन्दः पूरकृतिर्येन स तथा तस्मिन् । शुचेव शोकेनेव पर्यायेणानुक्रमेणोत्क्षिप्तमुत्पाटितं यत्रचतुष्कं तेन हतं क्ष्मातलं येन तस्मिन् । मुहुर्मुहुर्वारंवारमात्मनः स्वस्योन्मोचनाय मुक्तय इवाच्छोदितं खरं कठिनं खलीनं मुखयन्त्रणं कनकटव लायोगो येन स तस्मिन् । 'कविका तु खलीनोऽस्त्री' इत्यमरः । तुरंगमतामश्वतां मुमुक्षतीव मोक्तुमिच्छती वेन्द्रायुधे । पत्रलेखया निवेदितं ज्ञापितमेकमद्वितीयं चन्द्रापीडागमनं यस्याः सा | चन्द्रोदयेनोल्लसतीत्येवंशीला सा तथा महोदधेः समुद्रस्य वेलेवाम्भसो वृद्धिरिव | सह मकरध्वजेन कामेन वर्तत इति समकरध्वजा मातापित्रोः पुरो महाश्वेतादर्शनं व्याजीकृत्य मिषीकृत्य प्रतिपन्नेऽगीकृते शृङ्गारवेषाभरणे उज्वलनेपथ्यभूषणे यया सा तथा । रणञ्शब्दं कुर्वन्यन्नूपुरयुगं पादकटकयुग्मं तेन मुखरं वाचालं यन्मेखलादाम काञ्चीदाम तेन रम्यं मनोहरमुज्वलं निर्मलं यदाकल्पं वेपस्तेन । 'आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम्' इत्यमरः । कल्पिता घ टितानङ्गबलस्य काम सैन्यस्य विभ्रान्तिभ्रमो येन स तथा तेन | गृहीतान्यात्तानि सुरभिमाल्यानि सुगन्ध स्रजोऽनुले- पनं विलेपनम्, पटवासः पिष्टातः, एते आदौ येषामेवंविधान्युपकरणानि येन स तथा तेन | नातिबहुना नातिभूयसा