उत्तरभागः । ५२५ आकाङ्क्ष- कर्णान्त- १ स्थितः प्रार्थयमान इव अपृष्टोऽप्यावेदयन्निवात्मीयामेवावस्थाम, अभिनन्दन्निव, अनुशोच- न्निव, हृष्यन्निव, कृष्यन्निव, विषीदन्निव, विभ्यदिव, अभिभवन्निव, हृत इव, न्निव, अनुस्मरन्निव विस्मृतम् । अनिमेषेण निश्चलस्तब्धपक्ष्मणान्तर्वाप्पपूराण चुम्बिना विकसितेनेवामुकुलिततारकेण चक्षुषा मत्त इवाविष्ट इव वियुक्त इव पिबन्निवाक- पन्निवान्तर्विशन्निव च सुचिरमालोक्यात्रवीत् वैरतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः । यदियमक्लिष्टमालतीसुकुमारा मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेना- मुना केष्टतरतपश्चरणपरिक्लेशेन ग्लानिमुपनीयते । रूपवयसोरनुरूपेण सुमनोहारिणी लतेव रसाश्रयणा फलेन कथं न संयोज्यते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते पॅरत्वसंवन्धी तपश्चरणपरिक्लेशः । किं पुनराकृतिमतो जनस्य | तद्दुःखयति मामयमस्यास्ते स्वभावसरसायास्तनोर्मृणालिन्या इव तुहिनपातस्तपः- , न्निव किंचित्स्मृतिगोचरीकुर्वन्निव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति सुखाय ते वेति सुखायमान इव | तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव याच्यां कुर्वन्निव | 'तृष्णीकं तु स्मृतं मौने मौनं शीले वनव्ययम्' इति विश्वः । अपृष्टोऽन्य प्रश्नीकृतोऽप्यात्मीयां स्वकीयामेवावस्थां दशामावेदय- निवज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव, अनुशोचन्निव शुचं विदधन्निव, हृष्यन्निव हर्षन्निव, कृष्यन्निव विलिखन्निय, विषीदन्निव विषादं प्राप्नुवन्निव बिभ्यदिव त्रस्यदिव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव मु. पित इव, आकाङ्क्षन्निव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषर हितेन निश्चलं निष्कम्पं स्तब्धं पक्षम नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु | क्वचित् 'क्षरद्वाष्पः' इति पाठः | तस्य पूरः समूहस्तेनार्दे- णोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुङ्य- लिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवं विधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त इव वियुक्त इव विभिन्न इव, पिवन्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवा- कर्मणं कुर्वन्निव, अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् । हे वरतनु प्रशस्तदेहे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्तेर्वयसोऽवस्थाया आकृते रूपस्य वा सह- शमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चयेन वामा प्रतिकूला प्रकृतिः स्वभावो यस्यैवंभूतस्य विधेरिव विधातुरिव विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाव्यथिता या मालती जातिस्तद्वत्सुकुमारा सुकोमला मालेव स्रगिव कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रैकाद्वितीया केवलं वा योग्योचितामुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं म्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्य वयोऽवस्था विशेषस्तयोर नुरूपेण योग्येन रसं माधुर्यादिलक्षणमाश्रयतीत्येवंशीलेन फलेन साथ्येन कथं न संयोज्यते संयुक्तीक्रियते । केव | लतेव
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२२
दिखावट