उत्तरभागः । ५२३ । ततो यथायुक्तं प्रतिपत्स्य इत्यारोप्य हृदये तदाश्रमस्यैव नातिदूरे निवेशिततुरगसैन्यः सैन्यस- मायोगमपनीय सर्पनिर्मोकपरिलघुनी घनोज्झितज्योत्स्नाभिरामे परिधाय वाससी तथास्थित- पर्याणमेवेन्द्रायुधमारुह्य महाश्वेताश्रममुपाजगाम | तंत्र च प्रविशन्नेवावतीर्य महाश्वेतावलो- लोकनकुतूहलात्पश्चादाकृष्ठेनेन्द्रायुधपरिजनेनानुगम्यमानो विवेश | प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसह्यमन्युवेगोत्कम्पित सर्वावयवामनवरतनयनज लवर्षि- णीमुष्यण्डवाताहतां लतामिवोद्वाष्पदीनदृष्ट्या कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये -'मा नाम देव्या: कादम्वर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि मदागमनेऽनुभूयते महाश्वेत- या।' इत्याशङ्काभिन्नहृदयोऽयमुडीनैरिव प्राणैः पदे पदे स्खलन्निव पतन्निव मुह्यन्निवोपसृत्यो- पविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः किमेतदिति तरलिकामपृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकितवती । विलोकयामि । ततस्तदनन्तरं यथायुक्तं यथोचितं प्रतिपत्स्येऽङ्गीकरिष्ये । हृदये चेतसीत्यारोप्येत्याधाय तस्या महाश्वेताया आश्रमस्य गुम्फाया नातिदूरे नातिविप्रकृष्टे निवेशितं स्थापितं तुरगसैन्यमश्वबलं येनेवंभूतः सैन्य- समायोगं वाहिन्याः संबन्धमपनीय दूरीकृत्य सर्पस्याहेर्निर्मोकः कञ्चुकः | 'फणोऽहिकोशे तु निर्ल्सयनी नि- र्मोककञ्चुकाः' इति हैमः । तद्वत्परिलघुन्यगुरुणि घनेन मेघेनोज्झिता त्यक्ता याज्योत्स्ना चन्द्रिका तद्वदभिरामे मनोहरे वाससी वस्त्रे परिधाय परिधानं कृत्वा । अत्र वस्त्रद्वयग्रहणं देशाचारविशेषादेव मन्तव्यम् । यथा पूर्व स्थापितं तथैव स्थितं पर्याणं पल्ययनं यस्यैवंभूतमेवेन्द्रायुवमश्वमारुह्यारोहणं कृत्वा महाश्वेताश्रममुपाजगामो- पाययौ । तत्र च तदाश्रमे प्रविशन्नेव प्रवेशं कुर्वन्नेवावतीयवतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अ बलोकनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्यं तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानु- गम्यमानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्या स्तले समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेतामपश्यव्यलोकयत् । कीदृशीम् । असह्यो विसोढुमश- क्यो यो मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उ चलिताः सर्वावयवाः समप्रापधना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्वु वर्षतीत्येवंशीला सा ताम् । अत एवोत्प्रेक्ष्यते – उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । 'उच्चण्डस्त्वति. कोपनः' इति हैमः । उद्धा पोताश्रुरेवंविधा दीना दुःखिता दृष्टिर्हग्यस्या एतादृशया तरलिकया कथंकथमपि महता कष्टेन विभृतं वारितं शरीरं यस्याः सा ताम् । दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महावे- ताम् अस्य चन्द्रापीडस्य हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह - नामेति कोमलामन्त्रणे | देव्याः कादम्बर्य एव किम निर्दिष्टन कमनिष्टमशिवमुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येत- । ,
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५२०
दिखावट