पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः। ५१ ना चक्षुपुटेन परनीडपतिताभ्यः शालिवल्लरीभ्यस्तण्डुलकणानादायादाय क्षमूलनिपतितानि च शुककुलावदलितानि फलशकलानि समाहृत्य परिभ्रमितुमशक्तो मह्यमदात् । प्रति दिवस- मात्मना च मैदुपभुक्तशेषमकरोदशनम् । एकदा तु प्रभातसंध्यारागलोहिते गगनतलकमलिनीमध्वनुरक्तपंक्षपुटे वृद्धहंस इव मन्दा- किनीपुलिनादपरजलनिधितटमवतरति चन्द्रमसि, परिणतरङ्कुरोमपाण्डुनि ब्रजति विशालता- माशाचक्रवाले, गजरुधिररक्तहरिसटालोमलोहिनीभिः पंतप्तलाक्षिकतन्तुपाटलाभिरॉयामिनी. भिरशिशिरकिरणदीधितिभिः पद्मरागर्शलाकासंमार्जनीभिरिव समुत्सार्यमाणे गगनकुट्टिम- कुसुमप्रकरे तारागणे, संध्यामुपासितुमुत्तराशावलम्बिनि मानससरस्तीरमिावतरति सप्तर्षि- मण्डले, तटगतविघट्टितशुक्तिसंपुटविप्रकीर्णमरुणकरप्रेरणाधोगलितमुडुगणमिव मुक्ताफलनि- दलनं विदारणं तेन मसृणिता संजातचिक्कणतातएव क्षीणा घृष्टोपान्त्यलेखा प्रान्तसमीपवर्तिनी राजियस्यै- वंभूतेन चचुपुटेन नोटीसंपुटेन श्रमवशात्स्फुटिता स्फोटं प्राप्ता अग्रकोटिरग्रिम तीक्ष्णतर्रभागो यस्य स तेन । परेति । अशक्तिवशात्परेषां नीडानि तेभ्यः पतिताः खस्ता यः शालिवालयस्ताभ्यरतण्डुलकणा- नादायादाय गृहीला गृहीत्वा । वृक्षेति । वृक्षमूलनिपतितानि शुकानां कुलानि तैरवदलितानि खण्डि- तानि फलशकलानि तानि समाहृत्य एकीकृत्य परिभ्रमितुमशक्तो दूरे परिभ्रमणाशक्तो महमदाद्ददौ । घुसंज्ञक दाधातोलैङि रूपम् । एवं प्रतिदिवसं प्रत्यहमनेन प्रकारेणानीतं भक्ष्यं मह्यं दत्त्वा मयोपभुक्तं ततः शेषमुद्धरितमात्मनाशनमकरोत् । ध्यप्रत्ययानुशासनवशाचतुर्थ्यर्थे तृतीया । एकदा त्विति । एकदै करिमन्रामये कोलाहलमशृणवमिति दूरेणान्वयः । प्रभेति । प्रभातस्य प्रातः. कालस्य या संध्या तत्संवन्धी यो रागस्तेन लोहिते रत्ते । गगनेति । गगनतलमेव कमलिनी वियना । कमलिनी वा । तस्या मधु रसस्तेनानुरक्तं पक्षपुटं छदसंपुटं यस्य तस्मिन्वृद्धहंस इव जरत्कलहंस इव म. न्दाकिनी गङ्गा तस्याः पुलिनं सैकतं तस्माचन्द्रमसि निशानाथेऽपरो यो जलनिधिः पश्चिमसमुद्रतरय तट तीरं प्रत्यवतरत्युत्तीर्ण सति । परीति । परिणतः पक्को यो रमगविशेषतस्य रोमाणि तनूरुहाणि तद्- त्पाण्डुनि शुभ्रे विशालतां विस्तीर्णतामाशाचकवाले दिक्समूहे ब्रजति गच्छति सति । गजेति । गजानां हस्तिनां यद्रुधिरं तेन रक्ताः शोणिता या हरिसटाः सिंहस्कन्ध केसरास्तत्संवन्धि यलोम तद्वत् लोहिनीभिः आरक्ताभिः प्रतप्ता ये लाक्षिका जतु विकारोद्भवास्तन्तबरतत्पाटलाभिः अतरक्ताभिरायामिनाभिविस्तार- वतीभिरशिशिरा उष्णाः किरणा यस्यैवंभूतः सूर्यस्तस्य दीधितिभिदीप्तिभिः । काभिरिव । पद्मरागा लोहि. तकमणयस्तेषां शलाका ईषिकास्तासां संमार्जनीभिरिन बहुकरीभिरिब समुत्सार्यमाणे दूरीक्रियमाणे गगनगेव कुटिमं तत्र यः कुसुमप्रकरः पुष्पसमूहस्तस्मिन्निव तारागणे नक्षत्ररामूहे । उत्तरेति । उत्तराशोदीचीदि- क्तामवलम्बत इत्येवंशीलः स तथा तस्मिन्सप्तर्षिमण्डले सप्तर्पिसमुदाये मानससरस्तीरं प्रति संध्यामुपाशि- तुमिव सायंतनविधि कर्तुमिवावतरति राति । अत्र रूपकम् । अत्र सतीति प्रत्येकमन्वये योजनीयम् । पुनः