पूर्वभागः । तस्यैवंविधस्य सरसः पश्चिमे तीरे राघवशरमहारजर्जरितबालतहखण्डस्य च समीपे दि- गजकरदण्डानुकारिणा जरदजगरेण सततमावेष्टितमूलतया बद्धमहालवाल इव तुझस्कन्धा- चलम्बिभिरनिलवेल्लिरहिनिमोकैधृतोत्तरीय इव, दिक्चक्रवालपरिमाणमिव गृहृता भुवनान्त- रालविप्रकीर्णेन शाखासंचयेन प्रलयकालताण्डवप्रसारितभुजसहस्रमुंडुपतिशेखरमिव विडम्ब- यितुमुद्यतः, पुराणतया पतनभयादिव वायुस्कन्धलग्नः, निखिलशरीरव्यापिनीभिरतिदूरोन्न- ताभिर्जीर्णतया शिराभिरिव परिगतो व्रततिभिः,जरातिलकबिन्दुभिरिव कैण्टकैराचिततनुः, इतस्ततः परिपीतसागरसलिलैगगनागतैः पत्ररथैरिव शाखान्तरेषु निलीयमानैः क्षणमम्बुभा. रालसैराकृतपल्लवैजलधरपटलैरप्यदृष्टशिखरः, तुगतया नन्दनवन श्रियमित्रावलोकयितुम- तस्यैवेति । तस्य सरस एवं विधस्य पूर्वोक्तप्रकारेण वर्णितस्य पद्मसर इत्यभिधानस्य पश्चिमे पश्चिमदि- रवर्तिनि तीरे तटे महान्महीयाजीर्णश्चिरकालीनः शाल्मलीवृक्षः रोचनो द्रुमोऽस्तीभ्यन्वयः । तस्य स्थानाभि- व्यक्त्या आह-राघवेति । राघवस्य रामस्य ये शरा वाणास्तेषां प्रहार उपघातस्तेन जर्जरिता विसंस्थुला ये बालास्तृणराजास्तरवो वृक्षास्तेषां यत्खण्डं वनं तस्य रामापे निकटे दिशां गजा हस्तिनरतेपां ये करदण्डाः शुण्डादण्डास्ताननुकुर्वन्तीलेबंशीलातदनुकारिणस्तेन जरखरीयान्योऽजगरचकमण्डलस्तेन सततं निरन्त- रमावेष्टितं यन्मूलं स्थलं तस्य भावस्तत्ता तया वद्धं नद्धं महन्महीय आलवालमावालं यस्मिन्स तथा । पुनः कीदृश इव । धृतमुत्तरीयमुपसंत्र्यानं येन स तथा । कैः । अहीनां सपोणां निर्मोकः सर्पक नुकः । निमोकं विशिनष्टि---अनिलेति । अनिलो वायुस्तेन वेल्लितः कम्पितैः। 'वेहिते कम्पिताधून-' इति कोशः । तुङ्ग इति । तु उबो यः स्कन्धः प्रकाण्डरतत्रावलम्विभिरवलभ्वमानैः । अतएवोत्तरीयस्योपमागता । पुनः किं कुर्वतेव । दिगिति। दिशां चक्रवाल मण्डलं तस्य परिमाणमायामरत दिव गृह्णता ग्रहणं कुर्वता । केन । भुवनानामन्तरालं मध्यभागस्तत्र विप्रकीर्णनेतरततः पर्यस्तेन शाखानां लतानां संचयेन संदेहेन । 'शिखा शाखालताः समाः' इत्यमरः । प्रलय इति । प्रलयकाले संहाररामये ताण्डवे नृत्य प्रसारितमूध्वांकृतं भुजसहस्रं बाहुसहस्रं येन स तथा तम् । अथ चोद्धपतिश्चन्द्रः शेखरे यस्यैवंविधं महादेवं विडम्बयितुमुद्यत इव कृतप्रयत्न इव बहुशाखावत्त्वेनात्युञ्चत्वेन शशिनोऽपि तच्छिरोवर्तित्वेन च तद्विडम्वकख मिति भावः । पुराणेति। पुराणतया जीर्णतया पतनभयादिव प्रपातशक्रयेव वायुः स्कन्धे लग्नो यस्यैवंभून इव ।अनेन शाखा- मु महावायुप्रवेगेण प्रकम्पः सृचितः । तिरस्कर्तुं च वायोः स्कन्ध लग्न इत्यपि केचियाख्यानयन्ति । निखि- ल इति । व्रततिभिलताभिः । 'वटी तु व्रततिलता' इति कोशः। परिगतः परिवेष्टितः । अथ व्रत तीविशेष- यत्राह-निखिलेति । निखिलं समग्रं यच्छरीरं तव्याप्तुं शीलं यासां ताभिः । अतीति । अतिदूरमतिवि. प्रकृष्टमुन्नताभिः । काभिरिव । जीर्णतया वार्धक्येन शिराभिरिवास्थिवन्धनैरिव । जरेति । कण्टकैराचिता व्याप्ता तनुयस्य स तथा । करिव । जराया विनसाया ये तिलकविन्दवरतरिव । अतिवार्धक्ये शरीरे कृष्ण.
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४७
दिखावट