पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ कादम्बरी । सुमशयनीय समीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किंबहुना प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लेवम्, नामाक्षरेपु वाणी, प्रीतौ हृदयं देव्याः सकलमेव तं दिवसमभवत् । अपराह्ने च मामेवावलम्ब्य निष्क्रम्य हिमगृहकात्संचरन्ती यद्द- च्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र च सुधाधवलां कालिन्दीजलतरङ्गमय्येव मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् । तस्यां च मैणिस्तम्भावष्टम्भस्थिता स्थित्वा च मुहूर्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्तुमिच्छन्ती निश्चलवृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव च कृतसंकल्पा मद्- नाग्निं प्रवेष्टुमिच्छन्ती सस्ताविव स्वेदाम्भः स्रोतसि | स्रोतसेव तरलीकृता समकम्पत | कम्पिताङ्गी च पतनभियेवागृह्यत विषादेन । अथ मया विदिताभिप्रायया तन्मुखविनिवेशित निष्कम्पनयनदत्तावधानया 'आज्ञापय ' इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणाङ्गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसाकुट्टिमोल्लेखमुखरितनू- सह प्रतिनिवृत्य पश्चातां तथैव पूर्वोक्तरीत्यैव कुसुमशयनीयसमीपे समुपाविशं समुपाविष्टा | नवनवान्देवी- प्रसादाननुभवन्त्यहं सुखमतिष्टम् । किंबहुना जल्पितेन । प्रायेण बाहुल्येन मम चक्षुषि देवीचक्षुरिति । देवी- पदं प्रत्येक मभिसंबध्यते । चक्षुरित्यनेन संमुखमद्विषयक प्रेक्षणातिशयः । वपुषि वपुरित्यवियोगातिशयः । करे करपल्लवमिति मद्विषयकः कश्चिचमत्कारातिशयः | नामाक्षरेषु वाणीत्यनेन प्रश्नातिशयः | प्रीतौ हृदयमिति रहस्यप्रीत्यतिशयश्च व्यज्यते । देव्याः पूर्वोक्तं सकलमेव तं दिवसमभवत् । अपराह्ने च मामेवावलम्ब्यालम्वनी- कृत्य हिमगृहकान्निष्क्रम्य निर्गत्य यदृच्छया खेच्छया संचरन्ती व्रजन्ती निषिद्धपरिजना वलभं बालोद्यानं जगाम गतवती । तत्र चेति । तस्मिन्बालोद्याने सुधया पूर्वोक्तया धवलां शुभ्रां प्रमदवनवेदिकामभ्यारोहद- धिरोहणं कृतवती मरकतस्य या सोपानमाला तथा कालिन्दी यमुना तस्या जलतरकाः प्रचुरा यस्या एवं वि- धैव । तस्यां चेति । प्रमदवनवेदिकायां मणिरतम्भलक्षणो योऽवष्टम्भस्तस्मिन्स्थिता तदाधारेणासेदुपी। विर- हातिशयं व्यञ्जयन्नाह - स्थित्वा चेति । मुहूर्तमिव स्थिवावस्थितिं कृत्वा हृदयेन मनसा सह दीर्घकालमव- धार्य निश्चित्य किमपि व्याहर्तुं कथयितुमिच्छन्त्यभिलषन्ती निश्चयं धृता तारका कनीनिका यस्मिन्, निष्प- न्दं निश्चलं पक्ष्म नेत्ररोम यस्मिन्नेवंभूतेन चक्षुषा नेत्रेण मे मम मुखं सुचिरं बहुकालं व्यलोकयदपश्यत् । विलोकयन्त्येव पश्यन्त्येव कृतः संकल्पो यथा सा | संकल्पकार्यमाह-मदनेति । मदन एवानिर्वहस्तं प्रवेष्टुं प्रवेशं कर्तुमिच्छन्ती वाञ्छन्ती । एतेन मदनदाहस्यासह्यतातिशयो द्योलते | अग्निप्रवेशस्य स्नानपूर्व- कत्वादाह-र इ-सस्नाविवेति । स्वेदाम्भसो घर्मजलस्य स्रोतसि प्रवाहे सस्नाविव स्नानं कृतवतीव । एतेन स्वेदातिशयश्च व्यज्यते । स्रोतसा तरलीकृतेव समकम्पताचलत | कम्तिमहं यस्या एवंविधा च पतनभियेव विषादेनागृह्यतोपादीयत ।