पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । ३७५ --- दर्शयत् । तद्यथा - मरकतहरिन्ति व्यपनीतत्वञ्चि चारुम जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबह- लमृगमदामोदमनोहरं च मलयजविलेपनम् | अब्रवीच्च – 'चूडामणिचुम्बिना कोमलाङ्गुलि - विनिर्गतलोहितांशुजालेना जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्तशिखण्डमाणिक्यज्योत्स्ना स्नपितललाटेन च नमस्कारेण मदलेखा, क्षिति- तलघटित सीमन्तमकरिकाकोटिकोणेन सकलकन्यालोकश्च सचरणरज:स्पर्शेन च पादप्रणा- मेन तमालिका । संदिष्टं च तव महाश्वेतया – 'धन्या खलु ते येषां न गतोऽसि चक्षुषोरेवि- षयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव वृत्ताः । स्पृह्यन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायेवातीतदिवसाय । त्वया वियुक्तं निर्वृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् | जानासि च भांकृतसकलप- रित्यागाम्, तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च बलवदस्वस्थ शरीरा कादम्बरी | स्मरति च स्मेराननं स्मरकल्पं त्वाम् | अतः पुनरा- राजपुत्री प्रेषितान्यभिज्ञानानि चिह्नान्यदर्शय दवलोकनमकारयत् । तदेव दर्शयति तद्यथेति । मरकतमश्म- गर्भ तद्वद्धरिन्ति नीलानि व्यपनीतत्वञ्चि दूरीकृतत्वग्भागानि चाव या मञ्जरी तद्भाजि क्षीरीणि क्षीरयुक्तान्ये- तादृशानि पूगीफलानि क्रमुकफलानि । तथा शुककामिनी कीरपत्नी तस्याः कपोलौ तद्वत्पाण्डूनि श्वेतानि ताम्बू- लीदलानि नागवल्लीपत्राणि । तथा हरस्येश्वरस्य यश्चन्द्रखण्ड स्तद्वत्स्थूलं शकलं खण्डं यस्यैतादृशं कर्पूरं हिमवालुका | तथातिब हलोऽतिनिबिडो यो मृगमदामोदः कस्तूरीपरिमलस्तेन मनोहरं रुचिरं यन्मलयज विलेपनं चन्दनाङ्ग- रागः । एतद्दर्शनानन्तरमब्रवीदवोचत् । चकारः समुच्चयार्थः | कादम्बरी देव्यञ्जलिना वद्धपाणिपुटेन देवं भगवन्तमर्चयति पूजयति । अथाञ्जलिं विशिष्ट-चूडेति । चूडामणिः शिरोमणिस्तच्चुम्बिना तत्स्पर्शिना कोमलाङ्गुलिभ्यो मृदुकरशाखाभ्यो विनिर्गमो यस्यैवंभूतं लोहितं रक्तमंशुजालं किरणसमूहो यस्मिन्स तेन । महाश्वेता च सकण्ठग्रहेण निगरणसहितेन कुशलवचसा मङ्गलवाक्येन देवमर्चयतीत्यस्य सर्वत्र संवन्धः । तथा मदलेखा नमस्कारेण प्रणामेन । कीदृशेन । पर्यस्तेति । पर्यस्तं पतितं यच्छिखण्डमाणिक्यं शिखारत्नं तस्य ज्योत्स्ना कान्तिस्तया स्त्रपितं क्षालितं ललाटमलिकं यस्मिन्स तेन । सकलकन्यालोकश्च क्षितितले घटितो लग्नः सीमन्तः केशेषु वर्त्म तस्य मकरिकाभरण विशेषस्तस्याः कोटेरप्रभागस्य कोणोऽश्रिर्यस्मिन्नेवं विधेन चरणरज :- स्पर्शेन सहवर्तमानेन पादप्रणामेन तमालिका । तथा तव महाश्वेतया संदिष्टं कथितं वर्तते । तदेव दर्शयति - धन्या इति । खलु निश्चयेन | ते धन्या जनाः | यत्तदोर्नित्यामिसंबन्धादाह - येषामिति । येषां नृणां चक्षुषोर्नेत्रयोरविषयमगोचरं न गतोऽसि । तथा नाम भवतः समक्षं त्वत्प्रत्यक्षं ते तव गुणा औदार्यादयस्तुहिनं हिमं तद्वच्छीतलाः सुशीताश्चन्द्रमया इव विरहे त्वद्वियोगे विवस्वन्मया इव दाहजनकत्वात्सूर्यमया इव वृत्ताः संपन्नाः । एतेन विरहाधिक्यं सूचितम् | खलु निश्चयेन जनास्तन्नगर निवासिनो लोकाः कथमपि महता