पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ कादम्बरी । तपूर्वकायेन सितकञ्चकावच्छन्नवपुषा जराधवलितमौलिना गद्गदखरेण मन्दमन्दसंचारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम । क्षितितल. निहितकरतलस्तु कञ्चुकी राजानं यज्ञापयत्-'देव, देव्यो विज्ञापयन्ति,देवादेशादेष वैशम्पा- यनः स्नात: कृताहारश्च देवपादमूलं प्रतीहार्यानीतः' इत्यभिधाय गते च तस्मिन्राजा वैशम्पा- यनमपृच्छत्-'कंचिदभिमतमास्वादितमभ्यन्तरे भवता किंचिदशनजातम्' इति । स प्रत्यु- -'देव, किंवा नास्वादितम् । आमत्तकोकिललोचनच्छविर्नीलपाटलः कषायमधुरः प्रका- ममापीतो जम्बूफलरसः, हरिनखरभिन्नमत्तमातङ्गकुम्भमुक्तामुक्तरक्ताफलस्विपि खण्डितानि दाडिमवीजानि, नलिनीदलहरिन्ति द्राक्षाफलस्वादूनि च चूर्णितानि स्वेच्छया प्राचीनामल- कीफलानि । किं वा प्रलपितेन बहुना । सर्वमेव देवीभिः स्वयं करतलोपनीयमानममृतायते, इति । एवंवा दिनो वचनमाक्षिप्य नरपतिरब्रवीत्-'आस्तां तावत्सर्वम् । अपनयतु नः कुतूह- वाच- यस्य स तथा तेन । सितेति । सितः श्वेतो यः कशुकः कूर्पासस्तेनावच्छन्नमाच्छादितं वपुः शरीरं यस्य स तथा तेन । जरेति । जरा विरसा तया धवलितः शुभ्रीकृतो मौलिर्यस्य स तथा तेन । गदिति । गद्दः शब्दविशेषः स्वरो यस्य स तथा तेन । भन्देति । मन्दमन्दं शनैःशनैः संचरतीत्येवंशीलः स तथा तेन । क्षितीति । क्षितितले निहितं स्थापितं करतलं येनैवंविधः कञ्चुकी पूर्वोक्तो राजानं नृपं व्यज्ञापयद्विज्ञापना. मकरोत् । हे देव हे स्वामिन् , देव्यो राजपत्यो विज्ञापयन्ति विज्ञप्ति मन्मुखेन कारयन्ति । किं तदाह-दे- वेति । देवादेशात्स्वामिनो नियोगादेष दृश्यमानो वैशम्पायनः शुकः पूर्व लातः कृतस्नानः पश्चात्कृताहारो वि. हिताशनः । अयं च देवस्य राज्ञः पादमूलं समीपं प्रतीहार्यानयानीतः । इत्यभिधायेत्युक्त्वा तस्मिन्कञ्चुकिनि गते निवृत्ते सति राजा वैशम्पायनमपृच्छत् । कच्चिदिष्टप्रश्ने । भवता त्वयाभ्यन्तरेऽभिमतमिष्टं किंचिदशन- जातं भक्ष्यसमूहमास्वादितं जग्धम् । स इति । स शुकः प्रत्युवाच प्रत्यब्रवीत् । देवेति । हे नाथ, किं- वेत्यत्र नजि काकुः । तेन सर्वमास्त्रादितमित्यर्थः । तदेवोत्कर्पतया निरूपयति-प्रकामेति । प्रकाममति- शयेनातृप्तिमर्यादं पीतः पान विषयीकृतो जम्बूः सुरभिपत्रा तस्याः फलानि सस्यानि तेषां रसोऽन्तर्भूतद्रवः। की. दृशः । नीलः सन्पाटलः श्वेतरक्तः । अतएव । आमत्तेति । आमत्तो मदोन्मत्तो यः कोकिलः पिकस्तस्य लोच. नच्छविरिव छविर्यस्य स तथा । पुनः कीदृक् । कपायोऽम्लो मधुरो मिष्टश्चेति कर्मधारयः । अथ च खण्डि- तानि शकलीकृतानि । मयेति शेषः । कानि । दाडिमबीजानि । अथैतानि विशेषयन्नाह-हरीति । हरिः सिंहस्तस्य नखरा नखास्तैर्भिन्ना ये मत्तानां मातङ्गानां कुम्भा मांसपिण्डाः तेभ्यो मुक्तान्यपगतानि यानि रक्तानि रुधिराणि तैराणि विन्नानि यानि मुक्ताफलानि तद्वत्त्विद् कान्तिर्येषु तानि । नलिनीति । न- लिनी कमलिनी तस्या दलानि पत्राणि तद्वद्ध रिन्ति नीलानि । द्राक्षेति । द्राक्षा गोस्तनी तस्याः फलानि तद्वत्स्वादूनि मिष्टान्येवंविधानि प्राचीनामलकी क्षीरधात्री तस्याः फलानि स्वेच्छया स्वाधीनतया चूर्णि-