पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ कादम्बरी । तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नः- चन्दन विटंपादीनां मृदूनि किसलयानि निष्पीड्य तेन स्वभाव सुरभिणा तुषारशिशिरेण ललाटिकामकल्पयम्, आ चरणतलादङ्गचर्चा चारचयम् । अभ्यर्णपादपस्फुटितवरक वरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना स्वेदप्रतिक्रियामकरवम् | उरोनिहितचन्दन वल्कलस्य स्वच्छ सलिलैसीकरनिकरस्राविणा कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । मुहुर्मुहुरन्यदन्यनॅलिनीदलशयन मुपकल्पयतः, मुहुर्मुहुश्चन्दन चर्चामा रचयतः, मुहुर्मुहु दप्रतिक्रियां कुर्वतः, कैदलीदलेन चानवरतं वीजयतः समुदभून्मे मनसि चिन्ता- खल्वसाध्यं नाम भगवतो मनोभुवः | कायं हरिण इव वनवासनिरतः स्वभावमुग्धो क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता | सर्वथा नहि किंचि दुःकरमनायत्तमकर्तव्यं वा जगति दुरुपपादेष्वर्थेष्यप्ययमवज्ञया विचरति । ने प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतनान्यपि संघट्टयितुमलं न्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायाम तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पय मकरवम् । तत्र चेति । त स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविटपादीनां गलयजवृक्ष मृदूनि मुक़ुराणि किसलयानि किसलानि निष्पीड्य संमद्ये तेनानिर्वचनीयेन स्वभावसुरभिणा खास गन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवं विधेन रसेन द्रवेण ललाटिकां लोके 'आडी' इति प्रसि ल्पयमकरवम्। चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी | अङ्गचर्चा शरीरभूषां रचितवान् । अभ्यर्णेति । अभ्यण आसन्ना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोटं प्राप्तानि यानि = नि चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदीकृते ररेणुना हिमवाळुकाधूल्या स्वेदस्य घर्मजलस्य प्रतिक्रियां चिकित्सामकरवमकल्पयम् | उर इति । वक्षःस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेना क्लिन्नं वल्कलं यस्य स तथा तस्य | स्वच्छेनि च्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्य साविणा स्यन्दिनैतादृशेन कद रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं तत्' इति कोशः । अन्वतिष्ठ म् । एवं चेति । एवममुना प्रकारेण मुहुर्मुहुर्वारंवारमन्यदन्यदन्यतरदन्यतरन्नलिनीदलशयनं कमलि य्यामुपकल्पयतः कुर्वतःमुहुर्मुहुर्भूगोभूयश्चन्दनचर्चा मलयजमण्डनमारचयतो विदधतः, मुहुमुहुश्च वास दप्रतिक्रियां श्रमजलप्रतीकारं कुर्वतः प्रणयतः; कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रति मम मनसि चिन्ता समुदभूत्प्रादुरभूत् । यतः -- नास्तीति । नामेति कोमलामन्त्रणे | खलु निश्चये । मनोभुवः कंदर्पस्य किमप्यसाध्यमनिष्पाद्यं नास्ति न विद्यते । एतदर्थ स्पष्टीकुर्वन्नाह — केति महदन्त पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविद‍