पूर्वभागः । २९ राणां निनादेन, वारविलासिनीजनस्य संचरतो जघनस्थलस्थलास्फालनरसितरतमालिकानां मणिमेखलानां मनोहारिणा झङ्कारेण, नूपुररवाकृष्टानां च धवलितास्थानमण्डपसोपानफल- कानां भवनदीर्घिकाकलहंसकानां कोलाहलेन, रसनारसितोत्सुकितानां च तारतरविराविणा- मुल्लिख्यमानकांस्यक्रेङ्कारदीर्पण गृहसारसानां कूजितेन,सरभसप्रचलितसामन्तशतचरणतला- भिहतस्य चास्थानमण्डपस्य निर्घोषगम्भीरेण कम्पयते वसुमतीम्, प्रतीहारिणां च पुरः ससं- भ्रमसमुत्सारितजनानां दण्डिनां समारब्धहेलमुच्चैरुञ्चरतामालोकयन्त्विति तौरतरदीर्घेण भ- वनप्रासादकुखेपूच्चरितप्रतिच्छन्दतया दीर्घतीमुपगतेनालोकशब्देन, राक्षां च ससंभ्रमावर्जि- तमौलिलोलचूडामणीनां प्रणमताममलमलिशलाकादन्तुराभिः, किरीटकोटिभिरुल्लिख्यमानस्य मणिकुट्टिमस्य निःस्वनेन, प्रणामपर्यस्तानामतिकठिनमणिकुट्टिमनिपतितरणरणायितानां च मणिकर्णपूराणां निनादेन, मङ्गलपाठकानां च पुरोयायिनां च जयजीवेति मधुरवचनानुया- स्तेषां नादः शब्दस्तेन जर्जरितेन संभिनेन । पुनः केन । वारेति । वारविलासिनीनां वाराङ्गनानां संचरतो गच्छतो जनस्य लोकस्य जघनस्थलस्थलस्य कटिपुरोभागस्थलस्यास्फालनं ताडनं तेन रसिताः शब्दं कुर्वाणा रत्नमालिका मणिस्रजो यास्वेवंविधानां मणिमेखलानां रत्नखचितकाचीपादानां मनोहारिणा सुन्दरेण झङ्कारेण झणितिशब्देन । पुनः केन । नूपुरेति । नूपुराणां पूर्वोक्तानां रवः शब्दस्तेनाकृष्टानामाकर्षितानाम् । पुनः कीदृशानाम् । धवलितेति । धवलितानि शुभ्रीकृतान्यास्थानमण्डपस्य राज्ञ उपवेशनस्थलस्य सोपानमारोहणं तस्य फलकानि प्रसिद्धानि येरेवंविधानां भवनदीर्घिका गृहवा यस्तासां कलहंसा एव कलहंसकाः । खार्थ कः । तेषां कोलाहलेन कलकलेन । पुनः केन । रसनेति । रसना कटिमेखला तस्या रसितं शब्दितं तत्रो- त्सुकिता उत्कण्ठितास्तेषाम् । चः समुच्चये । तारतरोऽत्यन्तोचैस्तरो विरावः शब्दो विद्यते येषामेवंविधानां गृहसारसानां भवनलक्ष्मणानां कूजितेन शब्दितेन । कीदृशेन । उल्लिल्यमानं घृष्यमाणं यत्कांस्यं विद्युत्प्रियं तस्य ऋकारोऽव्यक्तध्व निस्तद्वद्दीāणायतेन । 'कूजितं स्याद्विहङ्गानाम्' इति कोशः । पुनः केन । सरभसेति । सरभसं ससंभ्रमं प्रचलिता गन्तुं प्रवृत्ता ये सामन्ताः खदेशपर्यन्तवर्तिराजानस्तेषां शतं तस्य चरणतलैंः पा- दतलैरभिहतस्य ताडितस्यास्थानमण्डपस्य नृपोपवेशनस्थलस्य निषिोऽव्यक्तध्वनिस्तेन गम्भीरेण पुष्टध्य- निना । तदुत्थशददेनेत्यर्थः । किं कुर्वता । वसुमती पृथ्वी कम्पयतेव क्षोभयतेव । पुनः केन । आलोकशब्दे- नालोक्यतामालोक्यतामित्येवंरूपेण । केपाम् । प्रतीहारिणां द्वारपालकानाम् । अथ प्रतीहारिणो विशेषय- बाह-पुर इति । पुरोऽग्रे रासंभ्रममनुपलक्षितखरूप समुत्सारिता दूरीकृता जना लोका यैस्ते तथा तेपाम् । दण्डो विद्यते येषां ते दण्डिनरतेषाम् । किं कुर्वताम् । समारब्धहेलं प्रारब्धकीई यथा स्यात्तथा । उचरित्यर्थः । उच्चरतां त्रुवताम् । किम् । आलोकयन्तु पश्यन्त्विति यो तारतारः शिरःसमुद्भवः शब्दस्तेन दीर्घणायतेन । पुनः कीदृशेन । दीर्घतां वहुलतामुपगतेन प्राप्तेन । कया । उच्चरितेति । उच्चरित उक्तो यः शब्दस्तस्य प्रति- च्छन्दस्तस्य भावस्तत्ता तया । केषु । भवनानि सामान्यगृहाः प्रासादा देवभूपसद्मानि तेषां कुशेयु लतान्तरि-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२९
दिखावट