पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९० कादम्बरी । निर्वीर्य - यति । अधिगतविषयतत्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रह सि, यतो न निवारयसि प्रवलरज:प्रसरकलुषितानि स्रोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम | धैर्यमवलम्ब्य निर्भर्त्स्यतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रमृज्य चक्षुः करतलेन मोमवल- म्व्यावोचत्— 'सखे, किं बैहूक्तेन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणा- तेषां कुसुमचापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति मनो वा वर्तते, यः पश्यति वा, शृणोति वा, श्रुतमधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलं स खलुपदेशमर्हति । मम तु सर्वमेवेदमतिदूरा- पेतम् । अवष्टम्भो ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैपा कथा | मध्येव मेऽयल विधृता- स्तिष्ठन्त्यसवः । दूरातीतः खलूपदेशकालः | समतिकान्तो धैर्यावसरः । गता प्रतिसंख्यान- वेला | अतीतो ज्ञानावष्टम्भसमय: । केन वान्येनास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, d 1 सुखवुद्धिमिदं सुखजनकमिति धियमारोपयति स्थापयति । एतेन सर्वथा सुखजनकत्वं नास्तीति ध्वनितम् । अ धीति | अधिगतं ज्ञातं विषयाणां तत्त्वं स्वरूपं येनैवंविधोऽपि कस्मात्केन हेतुना खद्योत इव ज्योतिरिङ्गण इव ज्योतिस्तत्त्वज्ञानं प्रकाशश्च तेन निवार्य दूरीकरणार्ह ज्ञानमुद्रहसि धारयसि । अस्य दिवाग्रनष्टचैतन्यत्वेन ता- दृशधर्मवत्त्वसाधर्म्यंत्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थ हेतुमाह—यत इति । यस्माद्धेतोः प्रवलो यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिनीकृतानि स्वतोऽम्भः प्रसरणानि स्रोतांसि तानीवो- न्मार्गप्रस्थितान्युत्पथवृत्तानीन्द्रियाणि करणानि न निवारयति न निवारणं करोपि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं न नियमयसि न नियन्त्रयसि | नामेति कोमलामन्त्रणे | कोऽयमनङ्गः कामः । धैर्यधीरिमामवलम्ब्याश्रित्याहं दुराचारो दुष्टाचरणो निर्भर्त्यतां तिरस्क्रियताम् । इत्येवं पूर्वोत्तप्रकारेण वदत एव कथयत एव मे मम वचनं वच आक्षिप्यावगणय्य | प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता वाष्पवेणिका यस्मि- नेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केण: ' इति हस्वत्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्ततलेन मामवलम्ब्यालम्बनीकृत्यावोचदन्नवीत् । किं तदित्याह- सख इति । हे सखे, बहुक्तेन वहुभाषितेन किम् | सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह — आ शीति | आशीविषाः सर्पास्तेषां विषवेगो गरलप्रसरस्तद्वद्विषमाणां कठिनानामेतेषां कुसुमचापसायकानां म न्मथवाणानां गोचरे विषये न पतितोऽसि तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपादयन्नाह –परेति । परस्य मयतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः । यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते शृणोत्याकर्णयतिवा श्रुतमाकर्णितं चावधारयति जानाति । तदभि प्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदम शुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्नि-