पूर्वभागः । २८१ द्रयेव विषविह्वलस्य, लोकायतिकविधयेवाधर्मरुचे:, मदिरयेवोन्मत्तस्य, दुष्टावेश क्रिययेव पिशाचग्रहस्य, दोपविकारोपचयः सुतरामक्रियत स्मरातुरस्य मे मनसः, येनाकुलीक्रियमाणा सरिदिव पूरेण विह्वलतामध्येगमम् । तां च द्वितीयदर्शनेन कृतमहापुण्यामिवानुभूतसुरलो- कवासामिव देवताधिष्ठितामिव लब्धवरामित्र पीतामृतामिव समासादितन्त्रैलोक्य राज्याभिषे- कामिव मन्यमाना, सततसंनिहितामपि दुर्लभदर्शनामिवातिपरिचितामप्यपूर्वामिव सादरमा- भाषमाणा पार्श्ववस्थितामपि सर्वलो कस्योपर्यवस्थितामिव पश्यन्ती, कपोलयोरैलकलताभङ्गेषु च सोपग्रहं स्पृशन्ती, विपरीतमिव परिजनस्वामिसंबन्धमुपदर्शयन्ती, 'तरलिके, कथय कथं स त्वया दृष्टः, किमभिहितासि तेन, कियन्तं कालमवस्थितासि तत्र, कियदनुसरन्न- स्मानसावागतः' इति पुनःपुनः पर्यपृच्छम् । अनयैव च कथया तथा सह तस्मिन्नेव प्रासादे तथैव प्रतिषिद्धाशेषपरिजनप्रवेशा दिवसमत्यवाहयम् । अथ मदीयेनेव हृदयेन कृतरागसंविभागे लोहितायति गगनतलावलम्बिनि रविविम्बे, १ इव यथाजातस्येव । ज्वरेण तापेन यः प्रलापरतद्भाषणं तस्य प्रवृत्तिः प्रवर्तनं तस्यासंबद्धभाषिण इव कद्वद स्येव । दुष्टेति । दुष्टनिद्रयानुचितप्रमीलया विपविह्वलस्येव विपार्तस्येव । निद्राया दुष्टत्वं च दोषजनकत्वादिति भावः । लोकेति । लोकायतिका नास्तिकास्तेषां विद्यया शास्त्रेणाथर्मरुचेरिव पापस्येव | मदिरेति । मदिरया गन्धोत्तमयोन्मत्तस्येव क्षीबस्येव । दुष्टेति । दुष्टो य आवेशोऽभिनिवेशस्तस्य क्रिया कर्म तथा पिशाचग्रहस्येव ग्रथिलस्येव । येनेति । येन दोषोपचयेन आकुलीक्रियमाणा पूरेण जलवृद्ध्या सरिदिव तटिनीवाहं विह्वलतां व्याकुलतामभ्यगममप्रापम् । तां चेति । तां तरलिकां पुनः पुनर्भूयोभूयोऽहमिति पर्यपृच्छमित्यप्राक्षमिति दूरेणान्वयः । इतिशब्दयोलमाह - तरलिकेति । हे तरलिके, कथय निवेदय | स पुण्डरीकः कथं केन प्रका- रेण त्वया दृष्टोऽवलोकितः । किमभिहितासि कथितासि तेन पुण्डरीकेण | कियन्तं कालमवस्थितासि विलम्वि- तासि तत्र तस्मिन्वने अस्माननुसरन्पृष्ठेऽनुव्रजन्कियत्पन्थानमसौ पुण्डरीक आगतः । कीदृश्यहम् । द्वितीय- वारं मुनेर्दर्शनेनावलोकनेन कृतं महत्पुण्यं ययैतादृशीमिव । 'आन्महतः समानाधिकरणजातीययोः' इति महच्छन्दस्यात्वम् । अनुभूत इति । अनुभूतोऽनुभव विषयी कृतः सुरलोकवासः स्वर्गे निवासो यया तादृशी- मिव । देवतयाधिष्ठिताश्रिता तादृशीमिव | लब्धेति | लब्धो वरो देवप्रसादो ययैतादृशीमिव | पीतमि ति | पीतमास्त्रादितममृतं पीयूषं ययैवंभूतामिव | समेति | समासादितः प्राप्त स्त्रैलोक्यस्य राज्यमाधिपत्यं तस्याभिषेकोऽभिषिञ्चनं ययैवंविधामिव तां मन्यमाना चेतसि ज्ञायमाना | पुनरहं किं कुर्वाणा | सततमिति । सततं निरन्तरं संनिहितामपि पार्श्ववर्तिनीमपि दुर्लभं दुःप्रापं दर्शनमवलोकनं यस्या एवंविधामिवातिपरिचिता- मप्यतिसंस्तवगोचरीकृतामध्यपूर्वामिवाभिनवामिव सादरमाभाषमाणा जल्पमाना । पुनः किं कुर्वन्त्यहम् । पार्श्वे समीपेऽवस्थितामप्यासी नामपि सर्वलोकस्य समग्र विश्वस्योपर्यवस्थितामिव पश्यन्त्यवलोकयन्ती । कपोलयोर्गला-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/२७९
दिखावट