पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वभागः । १९३ प्रेङ्खितनखमयूखच्छलेन धाराभिरिव लावण्यरसमनवरतं क्षरन्त्या, दिङ्मुखविसर्पिणि हारलता- नां रश्मिजाले निमग्नशरीरतया क्षीरसागरोन्मग्नवदनये व लक्ष्म्या, बहलताम्चूलकृ॑ष्णिकान्धका- रिताधरलेखावृत्तुङ्गनासिकया, विकसितपुण्डरीकलोचनया मणिकुण्डलमर्केरपत्रभङ्ग- कोटिकिरणातपाइतकंपोलतया सकर्णपड़वमिव मुखमुद्वहन्त्या, पर्युषितधूसर चन्दनरसतिलका- लंकृतललाटपट्टया मुक्ताफलप्रायालंकारया राधेयराज्यलक्ष्म्येबोपपादिताङ्गरागया, नैववनलेख- येव कोमलतनुलतया, त्रथ्येव सुप्रतिष्ठितचरणया, मखशालयेव वेदिमध्यया, मेरुवनलतयेव क- नकपत्रालंकृतया महानुभावाकारयानुगम्यमानं कैन्यया कैलासनामानं कच्चुकिन मायान्तमप- श्यत् । स कृतप्रणामः समुपसृत्य क्षितितलनिहित दक्षिण करो विज्ञापयामास - ' कुमार, महादेवी विलासवती समाज्ञापयति- 'इयं खलु कन्यका महाराजेन पूर्व कुलूतराजधानीमवजित्य कुलूते- श्वरदुहिता पत्रलेखाभिधाना वालिकासती वन्दीजनेन सहानीयान्तःपुर परिचारिकामध्यमुप- - रौ स्तनौ यस्याः सातया | मन्दमिति | मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवलया विशेष इत- स्ततश्चालनं तेन प्रेङ्खिता धृता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिणानवरतं निरन्तरं लावण्यरसं तारु- ण्यरसं वाराभिः क्षरन्त्येव । दिगिति | दिङ्मुखविसर्पिण्यो दिङ्मुखप्रसरशीला या हारलतास्तासां रश्मिजाले कान्तिसमूहे निमग्नं त्रुडितं यच्छरीरं तस्य भावस्तत्ता तथा क्षीरसागरात दुग्धाम्भोघेरुन्मनं वदनं यस्या एवंविधया लक्ष्म्येव । बहलेति । बहलो निविडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारितान्धकार इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तया । समेति । समाविषमा, सुवृत्ता वर्तुला, तुनोच्चा नासिका नासा यस्याः सा तया | विकेति । विकसितं यत्पुण्डरीकं तद्वोचने यस्याः सा तथा । मणीति । मणिकुण्डलयो रत्नभूषणयोर्मकरपत्रभङ्गः कोटीरपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्त- स्याहतं प्रतिबिम्बितं ययोरेवंविधकपोलौ तस्य भावस्तत्ता तया | सह कर्णपल्लवेन श्रोत्रावतंसेन वर्तमानं मुख- मिवोद्वहन्त्या धारयन्त्या | पर्युषीति । पर्युषितो गतदिनोद्भवोऽतएव धूसरो यश्चन्दनरसस्तस्य तिलकेनाल- कृतं भूषितं ललाटपट्टं यस्याः सा तया | मुक्तेति | मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधिपत्यश्रीस्तयेव । उभयं विशिनष्टि – उपेति । उपपादितो विहितोऽङ्गरागो यया | पक्षेऽङ्गनाम्रो देशस्य रागः प्रीतिः | नवा प्रत्यग्रा या वनलेखारण्य श्रेणिस्तये | उभयं विशेषयन्नाह – कोमलेति । कोमला सुकुमारा तनुलता शरीरलता यस्याः सा तया । पक्षे कोमलास्तनवो लता व्रतयो यस्याम् | त्रयी वेदत्रयी तयेव | सुप्रतीति | सुप्रति- ष्ठिताः शोभनतया स्थापिताश्चरणाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तरय शालयेव । उभयोः साम्यमाह — वेदीति | वेदिवन्मध्यं यस्याः सा तया । तनुमध्येत्यर्थः । पक्षे वेदिः परिष्कृता भूमिर्मध्ये यस्याः | मेरुर्मन्दरस्तस्य या वनलता तयेव । कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया | पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कन को धत्तरे च के का' इत्यनेकार्थ: महा नभावो महत्म्यं न आकार