सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। स्नेहाकुलेन निर्गच्छतेव हृदयेनान्तःशुभशैतानीव ध्यायन्ती मूर्धन्युपाम्राय तं सुचिरमाशि - श्लेष | अनन्तरं च तथैव कृतयथोचितसमुपचारमालिष्टवैशम्पायना स्वयमुपविश्य विनया - दवनितले समुपविशन्तमाकृष्य बलादनिच्छन्तमपि चन्द्रापीडमुत्सङ्गमारोपितवती । संसंभ्र- मपरिजनोपनीतायामासन्धामुपविष्टे च वैशम्पायने चन्द्रापीडं पुनःपुनरा लिङ्गय ललाटदेशे वक्षसि भुजशिखरयोश्च मुहुर्मुहुः करतलेन परामृशन्ती विलासवती तमवादीत् -'वत्स, कठिनहृदयस्ते पिता येनेयमाकृतिरीदृशी त्रिभुवनलालनीया क्लेशमतिमहान्तमियन्तं कालं लम्भिता | कैथमसि सोढवान विदीर्घा मिमां गुरुजनयन्त्रणाम् | अहो, बालस्यापि सत: कठो- रस्येव ते महद्धैर्यम् । अहो, विगैलित शिशुजनक्रीडाकौतुकलाघवभके ते हृदयम् | अहो गुरुजनस्योपरि भक्तिरसाधारणा सर्वा । यथा पितुः प्रसादात्समस्ताभिरुपेतो विद्याभिरीलो- कितोऽस्येवमचिरेणैव कालेनानुरूपाभिर्वधूभिरुपेत मालोकयिष्यामि' इत्यवेमभिधाय लज्जास्मि- तस्यागेव शशिबिम्बस्यार्कबिम्वे प्रवेशात् । अत्रादर्शस्य सूर्यविम्बशेपमानम् | मुखस्य शशिमण्डलोपमानम् । राज्या अमावास्योपभानमिति भावः । समुपसृत्य पार्श्व समागत्य | अन्वयस्तु प्रागेवोक्तः | तु पुनरर्थे । रा विलासवती तं सुतं सरांभ्रमं सवेगं पादपतितमुत्थाप्य पार्श्वपरिवर्तिनि निकटस्थायिनि परिजने परिच्छद आज्ञा- संपादनदक्षे नियोगकरणाभिज्ञे सत्यपि स्वयमेवात्मनैव कृतं विहितमवतरणमुत्साहकर्मविशेषो यया सा|हृदयेन चेतसान्तमध्ये शुभशतानि कल्याणशतानि ध्यायन्ती चिन्तयन्ती | अथ हृदय विशेषणानि -- त्रस्नु ( प्रस्तु) - तेति । प्रभुत पयःपू याँ पयोधरौ ताभ्यां क्षरन्तो ये पयोविन्दवस्तेषां छलेन मिषेण द्रवीभूय रसीभूय नि- र्गच्छतेव वहिः प्रसर्पतेव स्नेह आभ्यन्तरप्रीतिस्तेनाप्तेनाकुलेन व्याप्तेन मूर्धन्युत्तमाङ्ग उपाघ्राय चुम्बनं कृत्वातं सुचिरं चिरकालमा शिश्लेषालिलिङ्ग | अनन्तरं चेति । अनन्तरम् आलिङ्गनानन्तरम् । तथैव पूर्ववत् । कृतमिति । कृतो यथोचितो यथायोग्यः समुपचार: प्रियवाग्व्यापारो यत्रेति यथा स्यात्तथाश्लिष्ट आलितो वैशम्पायनो यया सा स्वयमुपविश्य विनयादवनितले समुपविशन्तमा से दिवांसमाकृष्य बलादाकर्षणं कृत्वानि च्छन्तमपि । मातुः श्रमसंभवात् । चन्द्रापीडमुत्स कोडमारोपितवत्यारोपयामास | ससंभ्रमं सवेगं परिजनेन परिच्छदेनोपनीतायामानीतायामासन्यां वेत्रपीठे वैशम्पायन उपविष्टे स्थिते सति चन्द्रापीडं पुनः पुनर्वारंवारमा- लिङ्गयोपगूहनं विधाय ललाटदेशेऽलिकप्रदेशे वक्षसि भुजान्तरे भुजशिखरयोः स्कन्धयोर्मुहुर्मुहुर्वारंवारं करतलेन स्वपाणितलेन परामृन्ती परामर्शनं कुर्वती विलारावती तमवादीत्तमवोचत् । किमुवाचेयाह – वत्सेति । हे वत्स हे पुत्र, कठिनं कठोरं हृदयं यस्यैवंविधस्ते पिता जनको येनेदृश्येतादृशीय माकृतिराकारस्त्रिभुवने लाल- नीया पालनीया अतिमहान्तं कालं भूयस्तरमियन्तमेतावत्प्रमाणं क्लेशं खेदं लम्भिता प्रापिता । अतिदीर्घा चिरकालमिमां गुरुजनयन्त्रणां पूज्यजन नियन्त्रणां कथं सोढवानसि | अहो इत्याश्चर्ये । ते तव बालस्यापि सतः कठोरस्येव महद्धैर्यम्।अहो इति पूर्ववत् । अर्भके बालके त्वयि विगलितं दूरीभूतं शिशुजना वालजनास्तेषां की- डाकौतुकं तेन लाघवं लघुत्वमेवंभूतं हृदयम् । अहो इति पूर्ववत् । गुरुजनस्योपर्यसाधारणा सर्वा भक्तिः। यथा पितुर्जनकस्य प्रसादान्माहात्म्यात्समस्ताभिः समग्राभिर्विद्याभिरुतः सहित आलोकितोऽसि वीक्षितोऽसि । एवं पूर्वोक्तप्रकारेणाचिरेणैव कालेन स्तोककालेनानुरूपाभिर्योग्याभिः वधूभिरुपेतमालोकयिष्यामीत्येवमभिधाय १ दिवसमुपसृत्य दिवसश्रियं समुपसृत्य २ ननाम ३ तु ससंभ्रममुत्थाय ४ कृतावतरणकापश्रुतपयोधर;