पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ कादम्बरी । नुलेपनधवलितोरःस्थलम्, उपरिविन्यस्तकुङ्कुमस्थासकमन्तरान्तरानिपतितबालातपच्छेदमिव कैलासशिखरिणम् , अपरशशिशङ्कया नक्षत्रमालयेव हारलतया कृतमुखपरिवेषम्, अतिचप. लरीज्यलक्ष्मीवन्धनिगडकटकशङ्कामुपजनयतेन्द्रमणिकेयूरयुग्मेन मलयजरसगन्धलुब्धेन भुजङ्गद्वयेनेव वेष्टितयाहुयुगलम् , ईर्षदालम्बिकर्णोत्पलम्, उन्नतघोणम्, उत्कुल्लपुण्डरीकनेत्रम् , अमलकलधौतपट्टायतमष्टमीचन्द्रशकलाकारमशेषभुवनराज्याभिषेकपूर्तमूर्णासनाथं ललाटदे- ..... शमुद्वहन्तम, आमोदिमालतीकुसुमशेखरमुषसि शिखरपर्यस्ततारकापुजमिव पश्चिमाचलम्, आभरणप्रभापिशङ्गिताणतया लग्नहरहुताशमिव मकरध्वजम्, आसन्नयतिनीभिः सर्वतः अतिसुरभि अतिसुगन्धि यच्चन्दनं मलयजं तस्यानुलेपनमङ्गरागस्तेन धवलितं शुभ्रीकृतमुरःस्थलं वक्षःस्थलं यस्य स तथा तम् । उपरीति । उपरि । अर्थाद्वक्षसः । विन्यस्ता विहिताः कुङ्कुमस्य केसरस्य स्थासका हरत- बिम्बा यस्य स तम् । 'स्थासकस्तु हस्तबिम्बम्' इति कोशः । कमिव । अन्तरेति । अन्तरान्तरा मध्ये मध्ये निपतिताः पर्यस्ता वालातपस्य नवीनालोकस्य छेदाः खण्डा यस्मिनेतादृशं कैलासशिखरिण मिव रजताद्रि मिव । पुनः प्रकारान्तरेण तमेव नृपं विशेषयन्नाह-अपरेति । अपरोऽन्यो यः शशी चन्द्रस्तस्य या शङ्का भ्रान्ति- स्तया नक्षत्राणि तारास्तासामाली ( सां माला ) श्रेणी तद्रूपयेव हारलतया। 'हारो मुक्तातः प्रालम्बस्रकलापा- चली लता' इति कोशः । तेन कृतो विहितो मुखस्याननस्य परिवेषः परिधिर्यस्य स तम् । अनेन हारलताया अत्यन्तनैमल्यं मुखस्य च चन्द्र साम्यं सूचितम् । 'परिधिः परिवेपश्च' इति कोशः । अतीति । अतिचपलाति- चञ्चला या राज्यलक्ष्मीराधिपत्यश्रीरतस्या बन्धो नियमनं तत्र निगडोऽन्दुकम्तस्य यत्कटकं वलयं तस्य शङ्कामा- रेकामुपजनयता कुर्वता । एवंभूतेनेन्द्रमणियुक्तमिन्द्रनीलमणिखचितं यत्केयूरयुग्ममझदद्वन्द्वं तेन वष्टितं परिक्षिप्तं बाहुयुगलं भुजाद्वितयं यस्य स तथा तम् ।यद्यपि समस्त वेष्टितपदस्य वाहुपदान्वितस्य विभक्त्यन्तरबद्धे- नान्वयस्तथापि विशेषे क्वचित् 'मानेन जितेन्द्रियः' इत्यादौ तथा दृष्टवाददोपो द्रष्टव्यः । केनेव । मलयेति । मलयजश्चन्दनसक्तो यो रसो द्रवस्तस्य गन्धे परिमले लुब्धेनासक्तेन भुजङ्गद्वयेनेव सर्वंयुग्मेनेव । ईप- दिति । ईपत्किचिदालम्बि लम्बमानं कर्णोत्पलं श्रवणपङ्कजं यस्य स तथा तम् । उन्नतेति । उन्नतोच्चा वोगा नासिका यस्य स तम् । उत्फुल्लेति । उत्फुल्लं विकसितं यत्पुण्डरीकं सिनाम्भोजं तद्वनेत्रे लोचने यस्य स तम् । किं कुर्वन्तं नृपम्। ललाटदेशमलीकप्रदेशमुद्वहन्तं धारयन्तम् । अथवालीकं विशेषयन्नाह–अमलेति । अमलं निर्मलं यत्कलधौतं सुवर्णं तस्य यः पट्टस्तद्वदायतं विस्तीर्णम् । 'अयनम्' इति पाठे सुवर्णतिलकस्थानम् । 'अयनं सरणिर्मार्गः' इति कोशः । अष्टमीति । अष्टम्यां यच्चन्द्रशकलं तदर्धभागस्त द्वदाकार आकृतिर्यस्य तत्तथा । उभयोः पक्षयोरष्टम्यामष्टावेव कला इत्यर्धचन्द्रः । अतोऽष्टमीग्रहणं युक्तमेवेति भावः । अशेषति । अशेषाणि समग्राणि यानि भुवनानि तेपां राज्यमाधिपत्य तस्याभिषेको मङ्गलस्नानं तेन पूतं पवित्रम् । ऊति । ऊर्णा ध्रुवोर]न्तरावर्तस्तेन रानाथं सहितम् । 'ऊर्जा मेपादिलोम्नि स्यादावर्तस्त्व(ते चा न्तरा भ्रुवोः' इत्यमरः । स च