पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्चानवरतमुहूयमानधवलचामरम्, अमलपुलिनतलशोभिनि सुरकुञ्जरमिव मन्त्र वारिणि हंसधवलशयनतले निषण्णं पितरमपश्यत् । आलोकयेति च प्रतीहारवचन मतिदूरावनतेन चलितचूडामणिना शिरसा कृतप्रणाम मेह्येही त्यै भिदधानो दूरादेव प्र भुजयुगलः शयनतलादीपहुँच्छुसितमूर्तिरानन्दजलपूर्यमाणलोचनः समुद्गतपुलकतया निकीकुर्वन्निव पियन्निव तं पिता विनयावनतमा लिलिङ्ग । आलिङ्गितोन्मुक्तश्च पि पीठसमीपे पिण्डीकृतमुत्तरीयमत्मताम्बूलकरङ्कवाहिन्या सत्वरमासनीकृतमपनयेति दन्तमचरणेन सैमुत्सार्य चन्द्रापीड : क्षितितल एव निपसाद | अनन्तरं निहिते चा राज्ञा सुतनिर्विशेषमुपगूढो वैशम्पायनो न्यपीदत् | मुहूर्तमिव विस्मृत चामरोत्क्षेप नि वारविलासिनीनां साभिलापैर निलचलितकुंवलयदामदीघैरी जिह्मतैरैलतार सारैरवल इव दृष्टिपातैः स्थित्वा 'गच्छ वत्स, पुत्रवत्सलां मातरमभिवाद्य 'दर्शनलालसां यथाक जननीर्दर्शनेनानन्दय' इति विसर्जितः पित्रा सविनयमुत्थाय निवारितपरिजनो वैश १ षिद्भिरनवरतमुद्द्यमानं वीज्यमानं धवलचामरं यस्य स तम् । पुनः कीदृशम् | हंसवद्धवलं य शय्यातलं तत्र निषण्णं स्थितम् । कमिव । मन्दाकिनी गन्ना तस्या वारिणि जले सुरकुञ्जरमिवैरा शयनं विशिनष्टि – अमलेति । अमलं निर्मलं यत्पुलिनं सैकतं तस्य तलं तद्वच्छोमिनि वि अन्वयस्तु प्रागेवोक्तः । आलोकय विलोकयेति प्रतिहारवचनानन्तरं द्वारपालोक्तेः पश्चादतिदूरादतिर्दा दवनतेन नत्रेण चलितः कम्पित चूडामणिः शिरोमणिर्यस्यैवंभूतेन शिरसा मस्तकेन कृतः प्रणामो ये एह्येहि । वीप्सायां द्विवम् | आगच्छागच्छेत्यभिधान इति वाण दूरादेव प्रसारितं विस्तारितं भ बाहुयुग्मं येन सः | शयनतलादीपत्किंचिदुच्छ्रसितोचभूता मूर्तिः शरीरं यस्य सः । आनन्दजलेन प्रमो पूर्यमाणे श्रियमाणे लोचने नेत्रे यस्य सः । आनन्दरूपम भिव्यञ्जयन्नाह - समुद्गतेति । समुद्गतः प्रा पुलको रोमाञ्चस्तस्य भावस्तत्ता तथा सीव्यन्निव कुर्वन्निवैकी कुर्वन्निव तन्मयी कुर्वन्निव पिवन्निवा पानं कुर्वन्निव | पितुर्निकटे विनयातिशयं व्यञ्जयन्नाह - विनयेति । विनयाद्वैनयिक गुणेनावनतं नम्रीभ तारापीडस्तं चन्द्रापीडमालिलिङ्ग परिपखजे । पूर्वमालिङ्गितः पश्चादुन्मुक्तो विभिन्नीभूतः पितुस्तारापी णयोः पादयोः पीठं पादासनं तस्य समीपेऽन्तिके ताम्बूलकरङ्कवाहिन्या पिण्डीकृतमात्मनः स्वकीयमुत्तरी शीघ्रमांसनीकृतं विष्टरीकृतम् अपयन दूरीकुर्विति शनैः शनैर्वदन्वन्त्रग्रचरणेन तत्समुत्सार्य दूरीकृत्य च क्षितितल एव भूमावेव निषसादोपविष्टवान् । तदनन्तरं तदुपवेशनानन्तरं राज्ञा तारापीडेन सुतनिर्वि स्यात्तथोपगूढ आलिङ्गितो वैशम्पायनो निहिते स्थापितेऽस्यासने चन्द्रापीडासने न्यषीददुपा विस्मृतो यश्चामरोत्क्षेपस्तेन निश्चलानां वारविलासिनीनां वाराङ्गनानां दृष्टिपात्र प्रान्तैरवलुप्यमान = द्यमान इव । दृष्टिपातं विशेषयन्नाह – सेति । सहाभिलाषाभिर्वर्तमानैः साभिलाषैः | सहस्य स अनिलेन वायुना चलितं कम्पितं यत्कुवलयदाम माला तद्वद्दीघैराय तैराजिह्माकुटिला तरला चञ्च