पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी १७० म्बकेन कर्णावलम्बिना काञ्चनमयेन कृतकर्णपूरमिवाङ्कुशेन मुखमुद्रहृता मदजलम लिनेन द्वितीयेनेव कर्णचामरेण कपोलतलदोलायमानेन मधुकरकुलेनालंक्रियमाणेनात्युदप्रतया पूर्व- कायस्य वामनतया च जघनभागस्य पातालादिवोत्तिष्ठता निशासमयेनेव परिस्फुरत्सार्धच न्द्रनक्षत्रमालेन शरदारम्भेणेव प्रकटितारुणचारुपुष्करेण वामनरूपेणेव कृतत्रिपक्षीविलासेन स्फटिकगिरितटेनेव लग्नसिंहमुखप्रतिमेनं प्रसाधितेनेवालोलकर्णपल्लवाहतमुखेन गन्धमादन- नाम्ना गन्धहस्तिना सनाथीकृतैकदेशम, उज्ज्वलपट्टकम्बलपटप्रवारित पृष्ठश्च रसितमधुरघण्टि- कारवमुखरकण्ठैर्मजिष्ठालोहित स्कन्ध केसरब। लैवनगजरुधिरपाटलसटैरिव केसरिभिः पुरो- निहितयत्र सराशिशिखरोप विष्टमन्दुरापालैरासन्नमङ्गलगीतध्वनिदत्तकर्णैरन्तः कपोलघृतमधु- चन्द्रविम्वं चुम्बन्तीत्येवंशीला ये संवर्तकाम्बुदा लोकविनाशकालीना मेधास्तेषां वृन्दं समूहस्तद्विडम्बयत्यनुकरोति यः स तथा तेन । 'शेपाद्विभाषा' इति प्रत्ययः । अनेन स्वच्छत्वेन वर्तुलत्वेन च शङ्खस्य चन्द्र सादृश्यं हस्तिनो जलधरसाम्यं च सटीकृतम् | कर्णेति | कर्णावलम्बिना काञ्चनमयेन स्वर्णनिष्पन्नेनाङ्कुशेन सृणिना कृतकर्णपूरमिव विहितश्रोत्राभरणमिव मुखमाननमुद्रहता धारयता | पुनः कीदृशेन | मधुकरकुलेन भ्रमरस मूहेन कृत्वालंक्रियमाणेन विभूष्यमाणेन | भ्रमरकुलं विशिष्टि - कपोलेति । कपोलतलं गल्लात्परो भाग- स्तत्र दोलायमानेनेतस्ततो भ्रममाणेन । चञ्चलत्वसाम्यादुपमानान्तरमाह- कर्णेति । द्वितीयेनापरेण कर्ण चारेणेव । शुक्लृत्वशङ्कां निराकर्तुमाह - मदेति | मदजलं दानजलं तेन मलिनेन कृष्णेन । एतेन वर्णेनाप्युपमा- नस्य साम्यमाविष्कृतम् । तदवयवानां सगुणत्वं वर्णयितुमाह-पूर्वेति । अत्युदयात्युचतया पूर्वकायस्य पुरोभागस्य | जघनभागे वामनत्वं गजस्य गुण इत्याशयेनाह - वामनेति । वामनतया हस्वतया जघनभागस्य पश्चाद्भागस्य | एतन्निमित्तादेवोत्प्रेक्षामाह- पातालेति । पातालावसातलाद्वडवामुखादुत्तिष्ठता प्रादुर्भवता निशासमयेनेव विभावरीकालेनेव । कीदृशेन । परिस्फुरन्ती दीप्यमानार्धचन्द्रोऽष्टमी चन्द्रस्तदाकृतिना मध्यमणिना सहवर्तमाना नक्षत्रमालाभरणं यस्मिन्स तेन | पक्षे सार्धचन्द्रा नक्षत्रमाला तारापकिर्यस्मिन्निति विग्रहः । पुनस्तमेव विशिनष्टि - प्रकटितेति । प्रकटित माविष्कृतमरुणं रक्तमतएव चारु मनोहरं पुष्करं शु- बडा येन स तथा तेन | केनेव | शरदारम्भेणेव घनात्ययप्रारम्भेणेव । तत्पक्षे पुष्कराणि कमलानि । 'रा- जीवपुष्करे' इति कोशः । शेषं पूर्ववत् । पुनर्विशेषतो विशेषयन्नाह - चामनेति | वामनरूपेणेव वामना- वतारेणेव | उभयसाम्यमाह - त्रिपदीति | कृतो विहित एकं पादमुक्षिप्य पादत्रयेणावस्थानं त्रिपदी तस्या विलासो विभ्रमो येन स तथा तेन | पक्षे त्रिपदी स्वर्गमृत्युपाताललक्षणा तस्यां विलासो विलसनं येनेति भावः । स्फटिकेति । स्फटिकगिरिः स्फटिकाचलस्तस्य तटेनेव वप्रेणेव । उभयं विशिष्ट - लग्नेति । लग्ना सिंह- मुखा प्रतिमा गजस्य दन्तवन्धो यस्य स तेन । 'प्रतिमा प्रतिरूपके | गजस्य दन्तवन्धे च' इत्यनेकार्थः । पक्षे लग्ना प्रतिविम्विता सिंहमुखस्य प्रतिमा प्रतिरूपकं यस्मिन्स तेन । अतएव प्रसाधितेनेव स्वीकृतभूपण- परिग्रहेणेव । लोलौ चपला याँ कर्णपल्लवी ताभ्यामाहतं मुखं येन ( यस्य ) स तेन | पक्षे कर्णपल्लवः शेषं पूर्व- वत् | अन्वयस्तु प्रागेवोक्तः । पुनः प्रकारान्तरेण विशेषयन्नाहाता ये ।