पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नृत्तशास्त्रेषु नारदीयप्रभृतिषु गान्धर्ववेद विशेषेषु, हस्तिशिक्षायाम, तुरङ्गवयोज्ञाने, पुरुषलक्षणे, चित्रकर्मणि, पैत्रच्छेये, पुस्तकव्यापारे, लेख्य कर्मणि, सर्वासु द्यूतकलासु, शकुनिरुतज्ञाने, ग्रह- गणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, यंत्र प्रयोगे, विषा- पहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, ध्रुविषु, इन्द्रजाले, कथासु, नाटकेषु, आख्यायिकासु, काव्येषु, महाभारतपुराणेतिहास रामायणेषु, सर्वलिपिषु, सर्वदेश भाषासु, सर्वसंज्ञासु, सर्वशि- स्पेषु, छन्दःसु, अन्येष्वपि लोकविशेषेषु परं कौशलमवाप | सहजा चाजस्त्रेमभ्यस्यतो वृको- दरस्येव शैशैव एवाविर्बभूव लोर्केविस्मयजननी महाप्राणता | यदृच्छया क्रीडताप्यनेन करत- स्मिन् । इतः परं चतुःपष्टिकला आह - राजेति । राजनीतयः कामन्दकी प्रभृतिशास्त्राणि तेषु | व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु | चापेति । चापं धनुः, चक्रं प्रसिद्धम्, चर्म संनाहः, कृपाणं खगम्, शक्तिः शस्त्रविशेष:, तोमरः प्रहरण विशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुध- विशेपेषु | रथचर्यासु रथपरिवर्तनेषु । गजपत्रेषु हरितशिरोदेशेपु | वीणा बलकी, वेणुवंशः, मुरजो मृदङ्गः, कां- स्यतालं वाद्यविशेषः, दर्दुरपुटं दर्दुरशव्दाकारशब्दं वाद्यम्, एतत्प्रभृतिषु वाद्येप्वातोद्येषु । भरतादयो विद्वां- सस्तैः प्रणीतानि विहितानि वृत्तशास्त्राणि ताण्डव विधानप्रतिपादकग्रन्थास्तेषु | नारदीयप्रभृतिषु गान्धर्ववेद वि- शेषेषु | हस्तिशिक्षायां गजशिक्षायाम् | तुरगस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने | पुरुषाणां नराणां लक्षणेषु सामुद्रिकप्रतिपादितेपु मपीतिलकादिलक्षणेपु | चित्रकर्मण्या लेख्यविद्यायाम् | पत्रच्छेद्ये केतकादिपत्रच्छे, दने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे | लेख्यकर्मणि लेखनविद्यायाम् | सर्वासु समासु द्यूतकलासु | शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहगणिते ज्योतिः शास्त्रे | रत्नपरीक्षासु रत्नानां मण्यादीनां शुद्धाशुद्धज्ञाने । दारुकर्मणि काष्टकर्मणि । दन्ता गजानां रदनास्तेषां व्यापारो व्या (व्यव) हतिस्तस्मिन् | वास्तुविद्यासु गृहनिर्मि- तिविद्यासु आयुर्वेदे वैद्यकशास्त्रे | यन्त्राणां सूर्यप्रतापादीनां प्रयोगो व्यापारणं तम्मिन् | विषाणां स्थावर- जंगमप्रभृतीनामपहरणं दूरीकरणं तस्मिन् । सुरक्षा संधिला तया उपभेदो भेदनं तस्मिन् | तरणे नद्यादितरणे .. लङ्घने कूपकालङ्घने । यो व्याघ्रादिषु सामादिषु विद्युत्करणादिरूपास्तासु | इन्द्रजालं मायाकूटनिर्मितं त स्मिन् | कथासु वृहत्कथाप्रभृतिषु | नाटकेष्वभिनयात्मकेषु आख्यायिकासु वासवदत्ताप्रभृतिषु | काव्यं कवि • कर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम्- 'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुपु | तरणं सर्वतीर्थानां तेन भारतमुच्यते' । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु सर्वलिपिवटा दशाक्षरविन्यासेषु । सर्वेषां देशानां भाषासु वचनव्यापारेषु | सर्वा याः संज्ञा: परिभाषारतासु | सर्वेषु शिल्पेषु | विज्ञानेषु । छन्दःस्वाम्नायेषु । अन्येष्वप्येत व्यतिरिक्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यगवाप प्राप्तवान् । अस्य कुमारस्याजस्रं निरन्तरमभ्यस्यतो विद्यापरिश्रमं कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एव सहजा नोपाधिका लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाहसशक्तिराविर्वभूव प्रकटीवभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजानामनेक- पानां कलभा एवं कलभकाः । स्वार्थे कः । 'कलभास्त्रंशदव्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको बालस्तस्य क्रमौ पादौ ताभ्यामाकान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः । · १ वर्म. २ गजपृष्ठेषु तुरंगपु; गजपृष्ठपुतुरंगेपु. ३ नृत्य ४ तुरगत्रयोज्ञानेषु ५ यत्रच्छे ६ तास