लिङ्गय विहसन्स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार | तस्मै च प्रीतमनाः प्रियवचना- नुरूपं पुरुपायापरिमितं पारितोषिकमादिदेश | उत्थाय च तथैव तेन चरणविकुट्टनकर्णितनू- पुरसहस्रमुखरित दिगन्तरेण सरभसोत्क्षेपचलितमणिवलयावलीवाचालितमुँजलतेनोर्वी कृतै- ● मत्तानतलै: करपुटैर निललुंलिता माँ काशक मलिनी मिव दर्शयता पर्यस्तमृद्वितकर्णपल्लवेन परस्प- राङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रमजलधौताङ्गरागरञ्जितनवीनवाससा किंचिदव- शिष्टतमालपत्रेण विलसद्वार विलासिनीहसितै रुन्निन्द्रकैरववनानुकारं प्रथयता सरभसवलान- स्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूर तिलकलुंलितालकलेखेन विप्रकीर्णपिष्ठातकपांसु- पुञ्जपिञ्जरितकेशपाशेन प्रवृत्तकैलमूककुब्ज किरातवामनबधिरजडजनपुरःसरेणोत्तरीयांशुक- श्रीवा बद्धावकृष्टविम्बित जरत्कच्चुकि केंदम्बकेन वीणावेणुमुरजकांस्यताललयानुगतेन कलम- हेन विकसितं विमुद्रं मुखं यस्य सः । सरभसं वेगेनालियोपगूहनं कृत्वा विहसन्स्मितं कुर्वन्स्वयमेवात्मनैव शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्व व्याख्यातखरूपं जहार हृतवान् | तस्मै शुभशंसिने पुरुषाय नराय प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमितं संख्यातीतं पारितोषिकं संतोषप्रयुक्तमा- दिदेशाज्ञां दत्तवान् | उत्थायन्त्रेति । तथैव तेनैवप्रकारेण उत्थायोत्थानं कृत्वा शुकनासभवनं गत्ला द्विगुणतर- मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा | अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं गन्तुं योग्य इत्यर्थः । अथ चान्तः पुरिकाजनं विशेयन्नाह - वरणेति । चरणानां पादानां प्रमोदातिरेकाद्य- द्विकुङ्कनमास्फाल॒नं तेन क्वणितं शब्दितं यन्नूपुरसहसंपादकटकसहस्रं तेन मुखरितं वाचालितं दिगन्तरं दि- अध्यं येन स तेन | सरमसेति । सरभसेन वेगेन य उत्क्षेपो भुजानां चालनं तेन चालिता कम्तिा या मणिवलगावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य स तथा तेन हर्षव शादूर्वीकृत रुचर्विहितैरुत्तानतलैः संमुखतः करपुर्हस्तपुटैरनिललुलितां वायुना विल्लुटितामाकाशकमलिनीं व्योमपद्मिनीमिव दर्शयता प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिता चूर्णिताः कर्णपल्लवा येन स तथा तेन | परस्परेति । परस्परमन्योन्यमङ्गदानां वाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनैव दृष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघवशाच्छ्रमजलेन धौतः क्षालितो योऽङ्गरागो विलेपनं तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमा- लपत्रं यस्य स तेन । इतरेपां भूपणानां वस्त्राणां च संमर्दवशानिपतनमभूत् | तमालपत्रं तु महता क्लेशेन साँ- भाग्यमण्डलनिमित्तकत्वाद्यवस्थापितमिति भावः | विलसन्त्यो या वारविलासिन्यो वारयोपितखासां हारा- तस्यैः | उन्निति | उन्निद्र/णि विकसितानि यानि कैरववनानि तेषामनुकार सादृश्यं प्रथयता विस्खा - रयता | सरमसेति | सरभरां सवेगं यद्वल्गनं परस्परमज्ञानामामोटनं तेन स्खलन्तीला चपला या हार- लता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन | सिन्दूरेति | सिन्दूरं नागजं तेन जनितं यत्तिलकं पुण्डं तत्र श्रमवशालता उठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन क्रियतामलकानां तत्रावस्थितिर्न तु सर्वेपामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टात- कः खार्थे कः । पटवासकस्तस्य पांसुओं वृलिसमूहस्तेन पिञ्जरितः पीतरकता प्राप्तः केशपाशो यस्य स तेन ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१४५
दिखावट