१३४ कादम्बरी । म्भीर्येण समुपारूढत्रिश्रम्भनिर्भरास्तास्ताः कथाः शुर्कनासेन कुर्वाणं भूमिपालमुपसृत्य रह कर्णमूले 'विदितं विलासवतीगर्भवृत्तान्तमकार्षीत् । तेन तु तस्या वचनेनाश्रुतपूर्वेणा संभाव्येनामृतर सेनेव सिक्तसर्वाङ्गस्य सद्यःमैरूढरोमा- च निकरकण्ट किततरोरानन्दरसेन विलीक्रियमाणस्य स्मितविकसित कपोलस्थैलस्य परि पूरितहृदयातिरिक्तहर्षमित्र दशनांशुवितानच्छलेन विकिरतो राज्ञः शुकनासमुखे लोल- तारकमानन्दजलबिन्दुत्रिपक्षममालं तत्क्षणं पपात चक्षुः । अनालोकितपूर्व तु हर्पप्रक- र्षमैभिसमीक्ष्य भूपतेः कुलवर्धनां च स्मितविकसितमुखीमागतां दृष्ट्वा तस्य चार्थस्य सततं मनसि विपरिवर्तमानत्वादविदितवृत्तान्तोऽपि तत्कालोचितमपरमतिमहतो हर्पस्य का रणभपश्यच्छुकनासः स्वयमुत्प्रेक्ष्य समुत्सर्पितासनः समीपतरमुपसृत्य नातिप्रैकटमा - वभाषे– 'देव, अस्ति किंचित्तस्मिन्स्वप्नदर्शने सत्यम् । अत्यन्तमुकुललोचना हि कुलवर्धना १ कथा विशिनधि - समुपेति । समुपारूढः सम्यक्प्रकारेणोपा प्राप्तो यो विम्भो विश्वासः स निर्भरो- इतिशयो यासु ताः । अन्वयस्तु प्रागेवोक्तः | तेनेति । तु पुनरर्थ । तस्या महत्तरिकायास्तेन वचनेन पूर्वोक्तप्रतिपादितेन राज्ञो नृपस्य चक्षुनेंत्र शुकनारामुखे तत्क्षणं पपातापतदित्यन्वयः | वचनं विशेषयन्नाह – अश्रुतेति | अश्रुतपूर्वानाकर्णितपूर्व | संभावयितुं योग्यं संभाव्यम् । न संभाव्यमसंभाव्यं तेन । कीदृशय राज्ञः | सिक्तं सिश्चितं सर्वा समग्र शरीरं यस्य स तथा तस्य । केनेव | अमृतरसेनेव पीयूपद्रवेणेव | मनोभीष्टलाद्दुःख निवारकत्वाच चचनस्यामृतसाम्यम् । सद्यस्तत्कालं प्ररूढः प्रादुर्भूतो यो रोमाञ्चो रोमोद्गमस्तस्य निकरः समूहस्तन कण्ट- किता संजातकण्टका तनुः शरीरं यस्य स तथा तस्य | आनन्देति । आनन्दः प्रमोदः स एव रसस्तेन विलीक्रियमाणस्य व्याकुलीक्रियमाणस्य । स्मितेति । अदृष्टरदं यद्धसितं तत्स्मितम् । तेन विकसितं विस्तीर्णतां प्राप्तं कपोलस्थलं यस्य स तथा तस्त्र । अत्रोत्प्रेक्षां प्रदर्शयन्नाह - परीति | परिपूरित पूर्णांकृतं हृदयं तस्मादतिरिक्तमुर्वरितं हर्पमिव दशनांशुवितानच्छलेन दन्तदीप्तिसमूह मिषेण विकिरतो वहिः क्षिपतः । चक्षुर्वशिनष्टि – लोला चञ्चला तारका कनीनिका यस्मिंस्तत् । आनन्देति । आनन्दजलवि- न्दुभिः प्रमोदजनितनेत्रजलपृषतैः क्लिन्नं खिन्नं पक्ष्ममालं नेत्ररोमसमूहो यस्मिंस्तत्तथा । अनालोकितेति । भूपते राज्ञोऽनालोकितपूर्वमनवीक्षितपूर्व हर्षप्रकर्ष प्रमोदातिशयमभिसमीक्ष्य निरीक्ष्य | च पुनरर्थे । कुलवर्धनां स्मितेन विकसितं विकस्वरं मुखमाननं यस्या एतादृशीमागतां समागतां दृष्ट्वा विलोक्य | तस्येति । तस्य विलासवत्या समाचीर्णानि व्रतानि तन्महिनावश्यमेतस्या गर्भा भविष्यतीत्येतादृश स्यार्थस्य सततं निरन्तरं मनसि चित्ते विपरिवर्तमानखाद्दृढं स्मर्यमाणत्वादविदितोऽज्ञातो वृत्तान्तो गर्भधारणरूपो येन स तथैवंविधोऽपि शकनासस्तत्का चतं तत्समययोग्यम रमन्यदतिमहतोऽत्यत्स्य हर्षस्य प्रमोदय कारणं नि समय-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१३२
दिखावट