पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ कादम्बरी । १२ पङ्कजस्पर्शेन नानुगृहीतौ मणिनूपुरौ । किं निमित्तमयमपगतमेखलाकलापमूको मध्यभागः । किमिति च हरिण इव हरिणलाञ्छने न लिखितः कृष्णागुरुपत्रैभङ्गः पयोधरभारे । केन कारणेन तन्वीयं हरमुकुटचन्द्रलेखेव गङ्गास्त्रोतसा न विभूषिता हारेण वॅरोरु, शिरोधरा । किं वृथा वहसि विलासिनि स्रवदश्रुजललवधौतपत्रलतं कपोलयुगम् । इदं च कोमलाङ्गुलि- दलनिकरं रक्तोत्पलमिव करतलं " किमिति कर्णपूरतामारोपितम् । इमां च केन हेतुना मानि- नि, धारयस्यनुपरचितगोरोचनाबिन्दुतिलकी मसंयमितालकिनी ललाटरेखाम् । अयं में ते बहुलपक्षप्रदोष इव चन्द्रलेखाविरहितः करोति मे हैष्टिखेदमतिबहुल तिमिरपट लन्धिकार: कुसुमरहित: केशपाशः । प्रसीद, निवेदेय देवि, दुःख निमित्तम् । एते हि पल्लवमिव सरागं " मे हृदयमो कम्पयन्ति तरलीकृतस्तनांशुकास्वायताः श्वासमरुतः । केचिन्मयापरा- १ कलहंसकावनुरणनसाम्यान्मणिनू पुरौ पादकटके कस्माद्धेतोः पादपङ्कजस्पर्शेन चरणकमलसंस्पर्शेन नानुगृहीतौ प्रसादपात्रीकृतौ । किंनिमित्तमिति | किंनिमित्तं किंनिदानमयमपगतो यो मेखला कटिसूत्रं तस्य कलापः समूहस्तेन मूको जडो मध्यभागो मध्यप्रदेशः । मेखलाया एकत्वेऽपि किङ्किण्यपेक्षया कलापेत्युक्तं वि विमणिद्युतिसाम्यात् । मेखलैव कलापः प्रचलाक इति वा । किमिति चेति । हरिणलाञ्छने चन्द्रे हरिण इव पयोधरभारे स्तनाभोगे कृष्णागुरुः काकतुण्डस्तस्य द्रवेण यः पत्रभङ्गो रचनाविशेषः किमिति हेतोर्न लि. खितो न लिपीकृतः । अत्र गौरत्ववर्तुलवकिंचित्कृष्णत्वसाम्याच्चन्द्रस्तनभारयोः साम्यम् | गौरकृष्ण- लसाम्याच हरिणकृष्णागुर्वोः साम्यम् । केनेति । हे वरोरु | केन कारणेनेयं तन्वी शिरोधरा ग्रीवा हारेण मुक्ताकलापेन न विभूषिता नालंकृता । केनेव | गङ्गास्रोतसा स्वर्धुनीप्रवाहेण हरसुकुटो जटाजूटरतस्मिन्या चन्द्रलेखा शशिकलेव । किं वृथेति । हे विलासिनि, स्रवत्क्षरद्यदश्रुजलं नेत्रजलं तस्य लवा विन्दवस्तै- धौंता क्षालिता पत्रलता पत्रभङ्गिर्यस्मिन्नेवंभूतं यत्कपोलयुगं वृथा मुधा किं वहसि किं धारयसि । इदं चेति । कोमलानि मृदूनि यान्यङ्गुलिदलानि तेषां निकरः समूहो यस्मिन्नेवंभूतं करतलं हस्ततलं रक्तोत्पल मिव कोकनदमिव । क्रिमिति हेतोः । कर्णपूरतां श्रवणाभरणतामारोपितं स्थापितम् । इमां चेति । हे मानिनि हे गर्वयुक्ते । केन हेतुना केन कारणेन । इमां प्रत्यक्षगतां ललाटरेखामलिकराजी धारयसि धत्से। तां विशेषयन्नाह – अन्विति | अनुपरचितमविहितम् | गोरोचना प्रसिद्धा तस्या बिन्दुभिरितलकं पुण्ड्रं यस्याः सा तामसंयमिता असंबद्धा अलकाः केशा विद्यन्ते यस्याः सा ताम् । अयं चेति । अयं ते तव कुसुमरहितः पुष्पशून्यः केशपाशः कुन्तलकलापो मे मम दृष्टिखेदं करोति प्रणयतीत्यन्वयः | कइव | बहुः लपक्षप्रदोष इव । बहुलपक्षः कृष्णपक्षस्तस्य प्रदोषो यामिनीमुखं तद्वदिव । अत्र प्रदोषेऽपि शुक्लपक्षे चन्द्र, लेखादर्शनाद्बहुलग्रहणम् । बहुलपक्षेऽपि पश्चिमरात्रौ चन्द्रनक्षत्राणां दर्शनात्प्रदोषग्रहणम् । कीदृक् । चन्द्र लेखा शशिकला तया विरहितः । प्रदोषं विशेषयन्नाह —अतीति । अतिबहुलान्यतिदृढानि यानि तिमिर- पटलानि तमोमण्डलानि तैरन्धकारो नेत्ररश्मीनामप्रसरो यस्मिन्स तथा । अत्र शुक्लत्वसाम्यात्कुसुम चन्द्रले. काळापा