पूर्वभागः । ११९ । इतरस्य तु विडम्बना । प्रजानुरागहे तोरन्तरान्तरा दर्शनं ददौ । सिंहासनं च निमित्तेष्वारुरोह | शुकनासोऽपि मैहान्तं राज्यभारमनायासेनैव प्रज्ञावलेन वभार । येथैव कार्याण्यका- र्षीत्तद्वदसावपि द्विगुणीकृतप्रजानुरागो राजकार्याणि चक्रे | तमपि चलितचूडामणिमरीचि
- मञ्जरीजालिभिमलिभिरावर्जितकुसुम शेखरच्युतमधुसीकर सिक्तैनृपसभं दूरावन तिङ्गोलित-
मणिकुण्डलकोटिसंघट्टितादं राजकमाननाम | तस्मिन्नपि चलिते चलितचटुलतुरगबलमु- खरखुरवबधिरीकृत भुवनान्तरालाः, बैलभरप्रचलवसुधातलदोलायमानगिरयः, गलन्मदा- न्धगन्धगजदानधारान्धकाराः, संसर्पद तिबहुल धूलिपटलधूसरितसिन्धवः, फ्रेंचलत्पदातिव लकलैँकलरवस्फोटितर्कैर्णविवराः, सरसोद्गुष्यमाणजयशब्द निर्भरौः, प्रोद्धूयमानधवलचाम- रसहस्रसंछादिताः, पुश्चितनरेन्द्र वृन्दक नकदण्डातपत्रसंघेंनष्ट दिवसा दश दिशो बभूवुः । . तु । ! आदरातिशयाभावेनेत्यर्थ: । 'असक्तः सुखमन्वभूत्' इत्युक्तत्वात् । इतरस्य त्वेतद्भिनस्य तु विडम्वना राज- कृत्यासाधकत्वेन व्यसनमेव | प्रजेति । प्रजायाः प्रकृतेरनुरागः स्नेहस्तस्य हेतोस्तदर्थमन्तरान्तरा मध्ये मध्ये दर्शनं जनानां सौधावलोकनं ददौ दत्तवान् | असकृद्वहिर्गमनमनादरहेतुरिति भावः । सिंहेति । निमि- त्तेषु तथाविधकारणेषु सिंहासनं नृपासनमारुरोहारूढवान् । शुकनासोऽपीति | शुकनासनामा मन्त्रिरमि हान्तं गरिष्टमपि राज्यभारमाधिपधुरमनायासेनैव प्रयास विना प्रज्ञावलेन राजनीतिवलेन बभार दघ्ने | यथैवेति । यथा येन प्रकारेण राजा नृपः कार्याणि कृत्यान्यकापत्कृितवांस्तद्वदसौ शुकनासोऽपि | द्विगु णीति । पूर्वस्माद्विगुणीकृतोऽभिकीकृतः प्रजायाः प्रकृतेनुरागः स्नेहो येन स तथा राजकार्याणि स्वस्वामि- कृत्यानि चक्रेऽकार्षीत् । तमपीति | तं शुकनासमपि राजकं राजसमूह आननाम नमश्चक्रे | कैः । मौलि भिर्मस्तकैः । कीदृशैः । चलिताः कम्पिता ये चूडामणयः शिरोमणयस्तेषां या मरीचिमञ्जर्यस्तासां जालं येषु तैः । राजकं विशेषयन्नाह - आवर्जितो वृतो यः कुसुमशेखरः पुष्पावतंसस्तस्माच्युताः सरता ये मधुसीकरा रसविन्दवरतैः सिक्ता सिञ्चिता नृपसभा परिपद्येन तत् । दूरेति । दूराद्दूरप्रदेशाद्यावनतिः प्रणामस्तस्य प्रेङ्खो- लितान्यान्दोलितानि यानि मणिकुण्डलानि रत्नकर्णाभरणानि तेषां कोटयोऽग्रभागास्तैः संघट्टितं संघर्षितमङ्गदं बाहुकटकं यस्य तत्तथा । तस्मिन्निति । तस्मिन्नपि शुकनासे चलिते प्रस्थिते सत्येवंभूता दश दिशो ब भूवुः । कीदृशाः । चलितेति । चलिताः प्रस्थिताश्चतुलाश्चपलास्तुरगा अश्वा यस्मिन्नेव॑भूतं यद्वलं सैन्यं तस्य मुखरा वाचाला ये खुराः शफास्तेषां रवः शब्दस्तेन वधिरीकृतानि भुवनान्तरालानि मध्यभागा यामु ताः । वलेति । बलभरेण सैन्यभारेण प्रचलं कम्पितं यद्वसुधातलं पृथ्वीतलं तेन दोलायमानाः कम्पायमाना गिरयः पर्वता यासु ताः | गलदिति । गलन्तः सवन्तो ये मदान्धा मदोन्मत्ता गन्धगजा गन्धेभारतेषां दानधारा मदपकय एवान्धकाराणि यासु ताः । संसर्पदिति | संसर्पर्ध्व गच्छद्यद तिवहुलमतिदृढं धूलिपटलं रजःस- मूहस्तेन धूसरिता धूसरवर्णाकृताः सिन्धवो नद्यो यासु ताः । प्रचलदिति । प्रचलद्रच्छ्युत्पदातिनां • TENTATIA A TA