पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ कादम्बरी । मन्त्रमिव जजाप, आगम मिव न विसस्मार चरितं जनः । यस्मिंश्च राजनि गिरीणां विपक्षता प्रत्ययानां परत्वम, दर्पणानामभिमुखावस्थानम्, शूलपाणिप्रतिमानां दुर्गाश्लेषः जलधराणां चापधारणम्, ध्वजानामुन्नतिः, धनुपामवनतिः, वंशानां शिलीमुखमुखअतिः, देवतानां यात्रा, कुसुमानां बन्धनस्थितिः, इन्द्रियाणां निग्रहः, वनकरिणां वारिप्रवेशः, तैक्ष्ण्यम - सिधाराणाम्, तिनामग्निधारणम्, ग्रहाणां तुलारोहणम्, अगस्त्योदये विषेशुद्धिः, केश- नखानामायतिभङ्गः, जलददिवसानां मलिनाम्वरत्वम्, रत्नोपलानां भेदः, मुनीनां योग- तं दिष्टिवृद्धिमिव भाग्याभ्युदय मित्र जनो लोकः शुभावाकर्णितवान् | उपदेश मित्र गुरु निर्देश मिव जग्राह गृहीत- वान्। मङ्गलमिव श्वोवसीय मिव बहु मेने सर्वाधिकत्वेन ज्ञातवान् । मन्त्रो देवताधिष्ठातृकस्तमिव जजाप जपितवान्। आगमः सिद्धान्तस्तमिव न विसस्मार न विस्मृतवान् | जन इत्यस्य सर्वत्र संबन्धः । यस्मश्चेति । यम्मिं स्तारापीडे राजनि । ‘डियो' इति वाकारलोपः । इदं पृथिव्यामासीत् । तदेव दर्शयति — गिरीत्यादि । गिरीणां पर्वतानां विपक्षता पक्षराहित्यम् | इन्द्रेण पक्षाश्छिन्ना गिरीणामिति प्रागेत्रोक्तम् । न तु लोकानां विपक्षता दस्युता । प्रत्ययानां खादीनां परत्वं प्रकृत्युपरिवर्तमानत्वम् । न तु लोकानां परत्वं भिन्नत्वं शत्रुत्वं वा । अभिमुखं जनानामवस्थीयतेऽनेने त्यभिमुखावस्थानम् | कर्मणि ल्युट् | दर्पणानां मुकुराणाम् । न तु लोकानां कस्यचित्पुरतः करयाप्यवस्थानम् | सर्वेषां लक्ष्मीवत्वादिति भावः | शूलपाणिरीश्वरस्तस्य प्रतिमाया मूर्तदुर्गा पार्वती तयाश्लेषोऽभिष्वङ्गः । न तु लोकानां दुर्गं विषमस्थलं तेन संध्यपः संवन्धः राजग्रहाभावात् । जलधराणां मेघानां चापधारणमिन्द्रधनुर्धरणम् । न तु लोकानाम् | भयाभावात्र धनुरादानम् ध्वजानां वैजयन्तीनामुन्नतिरूर्ध्वमुखत्वेन गमनम् । न तु लोकानाम् | अहंकृतेरभावात् । धनुषां चापानामवनतिरवन- मनम् । न तु लोकानां वलात्कारेण नतिः । सर्वेषां स्वाधीनवृत्तिात् । वंशानां वेणूनां शिलीमुखा भ्रमरा- स्तेषां मुखैराननैः क्षतिश्छेदः । न तु लोकानां शिलीमुखा वाणास्तैः क्षतिः पीडा | भावात् । 'पत्रि- प्वजिह्मगशिलीमुखकङ्कपत्रः' इति कोशः । देवतानां यात्रा क्षणविशेषः । न तु लोकानां यात्रा भयादन्यत्र गमनम् । 'यात्रा स्याद्यापने गतौ' इत्यनेकार्थः | कुसुमानां पुष्पाणां वन्धनेन ग्रथनेन स्थितिः । न तु लो- कानां वद्धत्वेनावस्थानम् | सर्वेषां निरपराधित्वात् । इन्द्रियाणां करणानां निग्रहो निरोधः | न तु लो- कानां निग्रहो दण्डः | वनकरिणामरण्यवासिगजानां वारिप्रवेशः । यया गजबन्धनं क्रियते सा वारिः । 'वा- रिः स्याद्गजबन्धनी' इति कोशः । नतु लोकानां दिव्यार्थ वारिप्रवेशः । तैदण्यं छेदशक्तिरसिधाराणां सद्गाग्रभागा- नाम् । न तु लोकानां तैक्ष्ण्यं क्रौर्यम् । व्रतिनां योगिनामग्निधारणम् । न तु लोकानामग्रौ धारणम् । ग्रहाणां नक्षत्राणां तुलारोहणं तुला राशिस्तस्यामारोहणं संक्रमः । न तु लोकानां दिव्यार्थ तुलारोहणम् | अगस्त्योद- येऽगस्त्यस्य मुनेरुदये विषशुद्धिर्विपं पानीयं तस्य शुद्धिः स्वच्छता । न तु लोकानां विषेण शुद्धिः कलङ्काप- हारः । तदुक्तम् - 'सप्तयवप्रमाणं वत्सनाभविषं तेन म्' इति । केशनखानामायतिर्विस्तारस्त स्या भङ्गो विच्छेदः । न तु लोकानामायतिरुत्तरः कालस्तस्य भगो लक्षणया दुःखजनकत्वम् | नित्येन तद्वि- }