निर्वर्तयामः स्रानविधिम् । अतिमहती वेला। सज्जीभूतं साधनम् । प्रयाणाभिमुखः सकलः स्कन्धावारस्त्वांन्नास्ते । किमद्यापि विलम्बिवेन' इति । स त्वेवमुक्तोप्यस्माभिरश्रुतास्म- दीयालाप इव जड इव मूक इवाशिक्षित इव वक्तुं न किंचिढपि प्रत्युत्तरमदात् । तमेव केवलमनिमेषपक्ष्मणा निश्चलस्तव्धतारकेण 5 सन्तताश्रुस्रोतसा लिखितेनेव चक्षुषा लतामण्डपमालोकितवान् । पुनः पुनश्चास्माभिरागमनायानुरुध्यमानस्तद्गथितहष्टिरेवास्मान् परिच्छेदनिष्ठुरमाह स्म । 'मया तु न यातव्यमस्मात्प्रदेशात् । गच्छन्तु भवन्तः स्कन्धावारमादाय । न युक्तं भवतां चन्द्रा- पीडभुजवलपरिरक्षितं गते तस्मिन्महासाधनं गृहीत्वास्यां भूमौ 10 क्षणमप्यवस्थानं कर्तुम् ।'इत्युक्तवन्तं तमकस्मान्नाम किंचिदस्य दैवादेव वैराग्यकारणमुत्पन्नृमित्याशङ्कच सानुनयमागमनाय पुनः पुनः प्रतिवोध्य तादृशासंबद्धानुष्ठानेन जातपीडा निष्ठुरमप्यभिहि- तवन्तो वयम् । एवं न युक्तमस्माकं स्थातुम् भवतः पुनर्दैवस्य तारापीडस्यानन्तरादार्यशुकनासाल्लव्धजन्मनो देव्या विलासवत्या- 15 ऽङ्कलालितस्य देवेन चन्द्रापीडेन सहैकत्र संवृद्धस्य तथा विद्यागृहे महता यत्नेनैवं शिक्षितस्य युक्तमिदम् , यच्च्येष्टे भ्रातरि सुहृदि वत्सले भर्तरि जगन्नाथे च गुणवति च भवति सर्वमर्पयित्वा गते तत्परित्यागेनात्रावस्थानम् । कस्यापरस्येदृशो युक्तायुक्तपरिच्छेदः तिष्ठतु तावदस्माकं तवोपरि स्नेहो भक्तिर्वा।अस्मिंस्तु शून्यारण्ये 20 भवन्तमेकाकिनमुत्सृज्य गताः सन्तो देवेन चन्द्रशीतलप्रकृतिना चन्द्रापीडेनैव किं वक्तव्या वयम् । किमन्यो देवश्चन्द्रापीडोऽन्यो वा भृवान् । तदुन्मुच्यतामयं संमोह्रः । गमनाय धीरधी- यताम् ।' इत्यभिहितोस्माभिरीपदिव विलक्षहासेन वचनेनास्मान- वादीत् । 'किमहमेतावदपि न वेद्मि यद्गमनाय मां भवन्तः 25 प्रवोधयन्ति । अपि च चन्द्रापीडेन विना क्षणमप्यहमन्यत्र न पारयामि स्थातुम् । एपैव मे गरियसी परिबोधुना । तथापि
पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/77
दिखावट