सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-उत्तरभागः(पि.वि. काणे)१९१३.djvu/118

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रियवयस्येन सहावियोगेन कालो यायादिति । स त्वेवमुक्तो मुहू र्तमिव ध्यात्वा पुनर्मामवादीत् । अनया स्नेहलतया ते ममार्गीकृतं हृदयम् । तदालोकितं मया । उज्जयिन्यामपत्यहेतोस्तपस्यतस्तारा पीडनाम्नो राज्ञः सनिदर्शनं चन्द्रमसा तनयत्वमुपगन्तव्यम् ।वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासनाम्नः । त्वमपि तस्य महोपकारिणश्चन्द्रात्मनो राजपुत्रस्य वाहनतामुपयास्यसीति । अहं तु तद्वचनानन्तरमेवाधःस्थिते महोदधौ न्यपतम् । तस्माच्च तुरङ्गीभूयैवोदतिष्ठम् | संज्ञा तु मे तुरङ्गत्वेनौपि न व्यपगता । येनायं मयास्यैवार्थस्य कृते किंनरमिथुनानुसारी भूमिमेतामानीतो देवेचन्द्रमसोऽवतारश्चन्द्रापीडः । योप्यसौ प्राक्तनानुरागसंस्का रादभिलषन्नजानत्या त्वया शापानिना निर्दग्धः सोपि मे वयस्य पुण्डरीकस्यावतारः । इति ।

एतच्छ्रुत्वा "हा देव पुण्डरीक, जन्मान्तरेप्यविस्मृतमद नुराग, मप्रतिबद्धजीवित, मच्छरण, मन्मुखावलोकिन्, मन्मय सकलजीवलोक, लोकान्तरगतस्यापि तेऽहमेव राक्षसी विनाशा योपजाता दग्धप्रजापतेरियदेव मन्निर्माणे दीर्घजीवितप्रदाने च प्रयोजनं निष्पन्नं यत्पुनः पुनस्ते व्यापादनं, स्वयं हत्वा च पाप कारिणी कमुपालभे किं ब्रवीमि किमाकन्दामि कमुपयामि शरणं को वा करोतु मयि दयां याचेऽहमात्मनैवाधुना 'देव प्रसीद कुरु दयां देहि मे प्रतिवचनम्' इत्येतान्यक्षराण्युच्चारयन्त्यपि लज्जे, मन्ये च तवाप्येवमुत्पन्नं मन्दभाग्यायां मयि वैराग्यं येनैव मपि विप्रलपन्त्यां न प्रतिवचनं ददासि, हा हतास्म्यनेनैवात्मनो जीवितस्योपर्यनिर्वेदेन" इत्युन्मुक्तार्तनादा सोरस्ताडनमवनावात्मा नमपातयत् ।

कपिञ्जलस्तु तथार्तकृतप्रलापां सानुकम्पमवादीत् । गन्धर्व राजपुत्रि कस्तवात्र दोषो येनैवमनिन्दनीयमात्मानं निन्दापदैयोंज