एतत् पृष्ठम् परिष्कृतम् अस्ति
Nature
॥ श्रीः ॥ भूमिका
श्र्लो ॥ वक्तारः सन्तु सर्वेऽपि स्वाशयस्य प्रकाशने ।
स्वपराशयसंवादिकथास्वेकः त्रिविक्रमः ॥ इति;
प्राकृतव्याकरणकर्ता त्रिविक्रमदेवो मुक्तकष्टमुवाच । विदितचरमिदं यत् भारतीया विद्वांसः प्रायशो निजनामधेयप्रकाशनसमुद्भवयशोविमुखा इति । तदनादे: कालात् बहवो महनीया निजपरिश्रमफलरूपेषु स्वप्रणीतेषु ग्रन्थेषु निजनामधेयानि न प्रकटयाम्बभूवुः । काले गच्छति विद्वत्परिश्रमफलरूपा रसपुष्टा अपि अनास्वादितरसास्तादृशो बहवो ग्रन्थाः कालगर्भे निलीना बभूवुः, भवन्ति, भवेयुश्च ।
अथ उपपञ्चविंशतित्रिविक्रमा वाङ्मयेषु संलक्ष्यन्ते । तेषु केचन
त्रिविक्रमा अपरे त्रिविक्रमदेवा अन्ये त्रिविक्रमपण्डिताः पुनरपरे त्रिविक्रमसूरयश्च ।
उपरि निर्दिष्टः श्र्लोकः प्राकृतव्याकरणकर्तुः त्रिविक्रमदेवस्य । अयं
त्रिविक्रमो बाणवंशीयः ; आदित्यवर्मणः पौत्रः ; मल्लिनाथस्य पुत्रोऽयं लक्ष्मीगर्भ- समुद्भवः इति ग्रन्थादेव ज्ञायते । श्री आचार्य पि. यल्. वैद्यमहाशया अस्य प्राकृतव्याकरणमतीतसमनन्तरकाले एव अन्ततः सम्पादयामासुः । तदुपोद्धाते श्रीवैद्यमहाशयाः त्रिविक्रमममुं त्रयोदशशतकोत्तरकालीनं सयुक्ति निरूपयाम्बभूवुः । अपि च दक्षिणभारतीयोऽयमान्ध्रः स्यादिति सूचयामासुः ।
अथ:- "कादम्बरीरसज्ञानामाहारोऽपि न रोचते " इति अभियुक्तोक्तिमनुसन्द- घाना बहवः प्राञ्चो विद्वांसः कादम्बरीसमाकुञ्चितचेतसः कादम्बरीरसास्वादं पाये |We should stop destroying nature and start protecting it