एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
श्री त्रिविक्रमविरचितः
एकादशः सर्गः
अथापरेद्युः प्रणयेन देवीं
ददर्श हंसात्मजया निषण्णाम् ।
प्रियंकरिण्या शरदा समेत
स पझिनीं प्रातरिवांशुमाली ।। १ ।।
अनायका मत्पृतना निकाम
मनाविका नौरिव सिन्धुराजे ।
अमार्गेगा स्यादत एव यामी
युवाच तां हंससुतां कुमारः । २ ॥
वियोगखिन्ना नरनाथसूत्रे
व्यलोकयन्म्लानमुखी कुमारी ।
किरातभीता हरिणीव कान्तं
प्रवातनीलोत्पललोलनेत्रा । ३ ॥
तस्याः समालोक्य च भावजात
मकृत्रिमप्रेमभवं कुमार्याः ।
मिताक्षरं हंससुता मितार्थं
नरेश्वरं वाक्यमिदं बभाषे ॥ ४ ॥
त्वं यासि चेद्याहि महानुभाव !
न युक्तमेव प्रणयं निषेद्धेम् ।
1भूयात्पुनर्दर्शनमावयोस्ते
तवापि भूयात्प्रणयोऽनुरूपः ।। ५ ।।
1. आसी: पुनर्दर्शनमस्मीयं ।
- तवापि भूय€प्रणयानुरूपः । इति मातृका !