मृतस्येवायुषः प्राप्तिः अन्धस्येवाक्षिसंभवः ।
निम्बस्येव निधेभमम तस्यागमोऽभवत् ॥ ३२ ॥
ततः कञ्चुकिनं कश्चिदानयेत्यादिशं मुनिम् ।
आनीय सोऽपि तं शीघ्र अन्त: पुरमगाहत ॥ ३३ ॥
शून्ये छायाविरहितं पुण्डरीकं 1विनाऽऽगतम् ।
में कपिञ्जलमद्राक्षे भग्नशाखामिव द्रुमम् ।। ३४ ।।
सादरं सहसोत्थाय स्वयमानीय चासनम् ।
सन्निवेश्य मुनिं तत्र न्यपीदं धरणीतले ।। ३५ ॥
स्थित्वा मुहूर्ते यत्किञ्चिद्विवक्षुरिव मामसैौ ।।
मत्समीपपविष्टायां तस्यां चक्षुरपातयत् ॥ ३६ ॥ ।
इयं तरलिक स्वामिन् ! मम प्राणा बहिश्चराः ।
अस्ति चेद्वद वक्तव्यमित्यवोचं कपिञ्जलम् ।। ३७ ।।
किं ब्रवीम्यत्र नि:शी राजपुत्रि ! तवाग्रतः ।
वागेव ललया तावजिह्वाग्रे नाधिरोहति ॥ ३८ ॥
कः पश्येद्राजपुत्रीणमसूर्यपश्यमाननम् ।
तथापि तव भाघोयमस्मद्भाग्यपरम्परा ।। ३९ ॥ ।
प्राणांस्त्यक्तापि मुद्दा रक्षणीयः मुहुजनः ।
इति लजां परित्यज्य भूतार्थं कथयामि ते ॥ ४० ॥
त्वत्समक्षममुं तत्र निर्भर्य 2परुषं ततः ।
स्थानास्थानान्तरं यानो राशराशिमिवांशुमान् ॥ ४१ ॥
1. द्विनाकृतमिति मतुः 2. पुषमनि मनुश्च !