पृष्ठम्:कादम्बरीकथासारः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७७
कदम्बरीकथासारः

किं नामधेया कन्येयं कस्यापत्यं महात्मनः ।
किमर्थमिह संप्राप्त क प्रयानीनि मे वद ॥ ११ ॥

अस्ति हंस इति ख्यामो गन्धर्वाणामधीश्वरः ।
गायन्ति सुरसुन्दर्यः यस्य कीर्तिमनिन्दिताम् ।। १२ ।।

गौर्या शीतांशुजातायां तेनैवोपादिता विक्ल ।
महाश्वेताभिधानेऽयं अस्माकं भर्तृदारिक् ॥ १३ ।।

सम्प्राप्ता स्नातुमच्छोदं सखीभिरनुमातरम् ।
प्रस्थिता हेमकूटाद्रिमिति सर्वमवादिषम् ॥ १४ ॥

स्थित्वा मुहूर्ते सनीडमन्तः विमपि चिन्तयन् ।
प्रत्याह स्म महाभागः मधुरं मधुराकृतिः ॥ १५ ॥

अविसंवादिनीमूर्तिस्तवेयं कलभाषिणि !
यत्किचदर्थये मोहातकुरुष्व तलोदरि ! ॥ १६ ॥

यदि मद्वचन कुर्याः परं जीवितुमुत्सहे ।
ईदृशानां विना दुर्भ भी कल्याणि ! वद का गतिः ॥ । १७ ।।

भगवन् ! त्रिमिदं युक्तं तव दासजने मयि ।
पुनीते दृष्टिपातेऽपि जन्तुमाज्ञा तु किं पुनः ॥ १८ ॥

विस्रब्धं वद वक्तव्यं जनऽयमनुगृशताम् ।
इयेवमुक्तः सदये पश्यन् दृष्ट्या प्रसन्नया ।। १९ ।।

तमालपत्त्रं निष्पीड्य तद्रसेन सुगन्धिना ।
पट्टिकां स्वयमालिख्य वल्कलोपान्तपाटिताम् ॥ २० ॥

रहस्त्वमस्यै कन्यायै दत्स्वेमामिति दत्तवान् ।
इत्युक्ता सा तरलिका मध्ये प्राणानिवार्पयत् ॥ २१ ॥