पृष्ठम्:काठकोपनिषत्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।३।१ काठकोपनिषत् ४८ ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे ॥ [शांकरभाष्यम्] ऋतं पिबन्तावित्यस्या वल्ल्याः संबन्धः । विद्याविद्ये नानावि- रुद्धफले इत्युपन्यस्ते न तु सफले ते यथावन्निर्णीते । तन्निर्णयार्था रथरूपक- कल्पना, तथा च प्रतिपत्तिसौकर्यम् । एवं च प्राप्तृप्राप्यगन्तृगन्तव्यविवेकार्थे द्वावात्मानावुपन्यस्येते–ऋतं सत्यमवश्यंभावित्वात्कर्मफलं पिबन्तौ । एक- स्तत्र कर्मफलं पिबति भुङ्क्ते नेतरस्तथापि पातृसंबन्धात्पिबन्तावित्युच्यते [प्रकाशिका] एव प्रैतु हौतुश्चमसः प्रब्रह्मणः प्रोद्भातृणां प्रयजमानस्येत्यध्वर्युप्रेष उद्भातृशब्दस्य बहुवचनानुरोधेन बहुषु वृत्तौ वक्तव्यायां षोडशर्त्विक्साधार- णाकारं विहाय विशेषाकारेणोद्रातृगणमात्रलक्षणा पूर्वतन्त्रे वर्णिता । तद्वदिह ब्रह्मक्षत्रयोरोदनशब्दमुख्यार्थत्वासंभवेऽपि भोज्यत्वभोग्यत्वरूपान्तरङ्गाकार- स्यैव लक्षणयाऽपि ग्रहणं युक्तम् । न त्वत्यन्तबहिरङ्गस्य विनाश्यत्वाका- रस्य येन निखिलचराचरसंहर्ता परमात्माऽत्र वाक्ये प्रतीयेतेति चेदुच्यते । यद्यपि विनाश्यत्वं साधारणाकारस्तथाऽपि मृत्यर्यस्योपसेचनमिति वाक्य- शेषानुरोधात्साधारणोऽपि गौण्या वत्त्या लक्षयितुमुचितः । ननु सेचनश- ब्दापेक्षयौदनशब्दस्य मुख्यत्वादोदनशब्दस्वारस्यानुरोधेन साधारणाका- ररूपभोग्यत्वे लक्षिते जघन्यमुपसेचनपदमबाधकत्वाभिप्रायेण कथंचिन्नी- यताम् । अतश्च यो ब्रह्मक्षत्रभोक्ता यस्य च मृत्युरबाधकः सोऽस्मिन्मन्त्रे प्रतिपाद्यते । भोक्तृत्वं च जीवस्यैवेति स एवास्मिन्मन्त्रे प्रतिपाद्यतामिति चेदुच्यते । उपसेचनत्वेन रूपितस्य मृत्येारोदनत्वरूपितेन ब्रह्मक्षत्रशब्दि- तेन दध्यन्नवत्प्रतीतसंबन्धस्य सर्वात्मना बाधप्रसङ्गात् । न हि यस्य ब्रह्म क्षत्र च भोग्यं यस्य च मृत्युरबाधक इत्युक्त्तेर्मृत्योर्ब्रह्मक्षत्रस्य च सबन्धः प्रतीयते । अत उपसेचनशब्दस्यौदनशब्दापेक्षया जघन्यत्वेऽप्यबाधक- स्वरूपसाधारणगुणं विहाय स्वयमद्यमानत्वे सत्यन्यादनहेतुत्वरूपासाधार णाकार एव ग्राह्यः । ततक्ष्चैकवाक्यान्तर्गतचरमक्ष्रुतोपसेचनपदानुसारेणौ- दनशब्देनापि विनाश्यत्वमेव लक्षणीयम् । स्वबुध्घुपस्थापनीयविशेषाकार- रूपगुणग्रहणादप्येकवाक्यतापन्नपदान्तरोपस्थापितगुणग्रहणस्यैव बुद्धिलाघवे- नैकवाक्यतासामर्थ्यानुरोधेन च न्याय्यत्वादित्यस्यार्थस्यात्रधिकरणे निर्णी- तत्वादित्यलं पल्लवितेन ॥ २६ ॥ द्वितीया वल्ली समाप्ता ॥ २ ॥ क इत्था वेद् यत्र स इत्यस्य दुर्ज्ञानत्वेऽत्रेत्थमास्त इत्यस्यार्थस्य दुर्बो-