पृष्ठम्:काठकोपनिषत्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१।१।५ बालबोधिनी १०० दुग्धं प्रसूतिर्गोमयादिकं चेति । तत्र दोहनस्य प्रसूतेश्चाभावः पूर्वमुक्तः । गोमयमपि कृशगवीनां नोपयोगाय तस्य द्रवीभूतत्वात् ॥ ३ ॥ १ । १ । ४ । [ शाङ्करभाष्यम्,] कृत्वसम्पत्तिानिमित्तामिति । क्रतोरसंपातिरसांगता निमित्तं यस्य तत् क्रत्वसाङ्गतानिमित्तम् । अनिष्टमिति । नञो विरो- धरूपोऽर्थः । इटं स्वर्गादि तद्विरुद्धं फलं स्यादित्यर्थः । पुत्रेण सतेति । पुन्नाम्नो नरकात्त्रायते पितरमिति हि पुत्रशब्दस्य योगजोऽर्थः । ततश्च पितुर्नरकाद्रक्षणं कर्तव्यमिति हि पुत्रधर्मो मयावश्यमनुष्ठेय इत्यर्थः । आत्मप्रदानेनापीति । अपिशब्देन स्वशरीरातिरिक्तं द्रव्यं तत्समीपे ना- सीत्किच द्रव्यान्तरे तस्य दानसामथ्र्यमपि नासीदिति बोध्यते मया पुत्रेण सतात्मप्रदानेनापि क्रतुसंपतिं कृत्वा पितुरनिष्टं फलं निवारणीयमित्यन्वयः । ततेति । तातेत्यर्थे छान्दसं रूपम् । द्वितीयं-द्वितीयवारम् । तृतीयं-तृतीय- वारम् । पुनःपुनह्स्थैवोवाचेत्यर्थः । अयं-कस्मै मां दास्यसीति पुनः पुन प्रक्ष्नककरणरूपः ॥ ४॥

[प्रकाशिका] [पृ.४] आस्तिकाग्रेसर इति । अस्ति दिष्टमिति मातिर्येषां त आस्तिकास्तेषामग्रेसरः श्रेष्ठः स्वदेहं प्रत्यर्प्यपि जनकस्य यज्ञफलासिद्धिं कामयतेऽत आस्तिकाग्रेसरत्वं तस्य । निर्विद्यमान इति । एवं पुनः पुनः प्रक्षप्रबन्धेन खेदं प्राप्यमाण इत्यर्थः ॥ ४ ॥

१ । १ । ५ । [ शाङ्करभाष्यम् | पाऱीदेवयां चकारेति । दीर्घकालं चिन्तयामासे- त्यर्थः । [पृ.५] गच्छामीति । मुख्यशिष्यवृत्या वर्त इत्यर्थः । त्रिविधा हेि शिष्यादीनां वृत्तिः । मुख्यमध्यमाधमभेदात् । तत्र गुरोरिष्टं ज्ञात्वा तदाज्ञां विना तदिष्टसाधने मुख्या प्रथमा वा वृत्तिः । गुरोराज्ञया तदिष्टसंपादने प्रवृत्तिर्मध्यमा वृतेिः । तदाज्ञयापि तत्राप्रवृत्तिरधमा वृंत्तिः । विशिष्टगुणं मुख्यमध्यमवृत्तिभ्यां प्रवर्तमानम् । स किंस्विदिति । स मे पिता मद्दान- द्वारा यमस्य किं प्रयोजनं संपादयिष्यति । क्रतौ यमोद्देशेन पुत्रदानस्या- विधानात्किमपि तत्प्रयोजनं न दृश्यत इत्यर्थः । नूनं-नियतम् ।ः तथापि तत्पितुर्वचो मृषा मा भूदित्येवं पारदेवनपूर्वकं " किं मयोक्तं " इति शोका- विष्टं पित्रमाहेत्यन्वय:। किं मयोक्तं-किमेतन्मृत्यवे त्वा दास्यामीत्ययोग्यं मयोक्तमिति शोकाकुलम् ॥ ५ ॥