पृष्ठम्:कर्मप्रदीपः (प्रपाठकः १ खण्डः १).pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कम्मप्रदोषः । परिशिष्टप्रकाशः । इत्यादिपदद्दयात्मकमन्त्रप्रयोग उक्तो भवति । नमो ब्रह्मण इति १८२ [ २प्र. ३ख ] प्रभा । इति । इत्येवमित्यत्र, इति: पूर्वोक्त पदहयपरामर्थः । एवमिति क्रमार्थम् । एवञ्च पृथिव्यै नमः इत्यादिरूपो बलिमन्त्रः सिध्यति । प्रदानार्थपदानां स्वधाकारादीनामन्तएव प्रयोगस्य प्रायशो- दर्शनाचे तदेवं प्रतिपत्तव्यम् । अतएव स्वधाकारण निर्वपेदित्यादि. वक्ष्यति । अव च नमः पृथिव्यै इत्यादिर्न मस्कारादिमन्त्रो न तु तदन्तः । नमो ब्रह्मणे इति वास्तुबली विकृतौ तथा दर्शनात् । वैकृतवचनेनापि च अईिनो दोक्षयन्ति इत्यादिना प्रकृती भागव्यवस्थाया दृष्टत्वात् । अमुष्मै नम इति न क्रमपरं, किन्तु प्रमुष्मै नम इत्युभयमुक्ता बलिदानं विधत्ते । अन्यथा परिशिष्ट- सूत्रविरोधापत्तेरिति परिशिष्टप्रकाश: । '

वयन्तु पश्यामः । इत्येवं बलिदानमिति शब्देन क्रमस्योक्त- त्वात् वैकत्तदृष्टकमकल्पनाया अवसर एव नास्ति । यत्र हि प्रकृती किमपि नोपदिश्यते, तत्रैव विकृतौ दृष्टं परिकल्पाते। इह तु प्रकृती विशेषोपदेशात् आकाईव नोदेति कैवावसरो विकृति- परिदृष्टकल्पनायाः । न च परिशिष्टस्त्रयोर्विरोधः । परिशिष्टस्य प्राकतबलिविषयत्वात् सूत्रस्य च वैकृतबलिविषयत्वात् अनयो- विरोधशाऽनवसरात् । किञ्च परिशिष्टकार: खवयमस्पष्टानां