पृष्ठम्:करणप्रकाशः.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ करणप्रकाशे । ऽन्यथा स्थित्यध लम्बनान्तरमृणं भवति । यदि मध्यस्पर्शकालिकयोवी मध्यमोक्षकालिकयोर्दम्बने धनणे भवतस्तद तयोरन्तरे तद्योगो भवतीति । एवं मर्दखण्डयोः स्फुटयोर्मध्येऽपि विधिरित्यादि सर्वं स्फुटमिति सर्वमुप पद्यते ॥७॥ स्याद्वाहुरत्रभमतः स्फुटेषुजः स्थित्यर्धनिनोऽपहृतः स्फुटेन सः। स्फुटस्ततो ग्रासविधिर्यथोक्तवत् ततोऽप्यनेहा विपरीतकर्मणा ॥ ८॥ तत इष्टप्रासाद्विपरीतकर्मणाऽनेहा इष्टकालः साध्य इत्यर्थः । अत्रोपपात्तिः । ‘शेषं शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन स्थितिखण्डकेन' इत्यादिना भास्कराविधिना स्फुट । तत्रैव भास्करविधा मदीय विशेषश्च चिन्त्यः । (मन्मुद्रायित—लछसिद्धान्तशिष्यधीवृद्धिदतन्त्रस्य ३१ पृष्टे म दीया टिप्पणी विलोक्य ) ॥ ८ ॥ मातण्डंबिम्बस्य दिवाकरां-१२शः संलक्ष्यते न खलु खण्डितोऽपि । सुतीव्रभावान्महसः सुधांशोः सुनिर्मलत्वादपि षोडश-१६शः ॥ ९ ॥ इति करणप्रकाशे सूर्यग्रहणाधिकारः ॥ ६ ॥ स्पष्टार्थमुपपत्तिश्च ‘ इन्दोर्भागः षोडशः खण्डितोऽपि तेजःपुञ्जच्छ न्नभावान्न लक्ष्यः-' इत्यादिभास्करोक्तेनोपलब्धिरेवेति ॥ ९ ॥ श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सद्वासनाऽकारि बहुत्र तेन विदोदितः सूर्ययुतैौ तु हेतुः । करणप्रकाशस्य सद्वासनायां सूर्यग्रहणाधिकारः समाप्तः ॥३॥ अथाद्यास्ताञ्चकारः ऊनो ग्रहो लघुगतिस्तरणेरुदेति आच्यामतोऽधिकगतिस्त्वधिकः प्रतीच्याम् । शक्रस्य दिश्याधिकभुक्तिखगः स ऊन ययस्तसुनगरय्यधिकोऽपरस्याम ॥ १ ॥