गणककुमुदकौमुदीटीकासमेतम् । (७१) अथ मौक्षिकवलनामात्तेनैव सूत्रेण बिम्बार्द्धं कार्यं तयोर्बिम्बा- र्द्धयोर्यत्र सङ्गमस्तत्र मुखपुच्छे प्रकल्प्ये। अथ वलनायकाभ्यां समतुल्यप्रमाणेन कर्काटकेन वृत्तद्वये कृते वृत्तयोः समासे मत्स्याकार उत्पद्यते तन्मध्यसूत्रे तन्मुखपुच्छसूत्रमिति, तस्य मुखात्केन्द्रव्यापिनीं पुच्छपर्यन्तं रेखां कृत्वा ॥ १९ ॥ अथ स्पर्शादिस्थानमुपजात्याह- केन्द्राद्यथाशं स्वशराग्रकेभ्यो वृत्तैः कृतैर्ग्राहकख- ण्डकेन । स्युः स्पर्शमध्यग्रहमोक्षसंस्था अथाङ्कये- न्मध्यशराग्रचिन्हात् ॥२०॥ केन्द्रादिति-तस्मात्केन्द्रान्मध्यस्थितबिन्दोर्मध्यशरः स्व- दिगभिमुखो देयः, एवं शरत्रयाग्रं चिन्हयित्वा रविग्रहे ग्राह- कस्य चन्द्रस्य खण्डकेन चन्द्रग्रहणे भूभायाःखण्डकेन माना- र्द्धेन तत्केन्द्रादिति-कर्काटकेन स्पर्शशरचिन्हाद्वृत्तं कुर्यात् । तदभ्यन्तरे ग्राह्यवृत्ते यत्र स्पृशति तत्र स्पर्शो ज्ञेयः; एवं मौ- क्षिकशराग्रकृतवृत्तसम्पर्कान्मोक्षस्थानं ज्ञेयम्, मध्यशराग्रक- तवशान्मध्यग्रहणसंस्थानं ज्ञेयम्, तत्र यदा मध्यग्रासो ग्राह्य- बिम्बमुल्लंघ्य यावद्बहिःपतति तावदाकाशं गृह्यते तत्र सर्वग्रहणं ज्ञेयम्, यदा तु ग्राह्यबिम्बैकदेशे गृह्णाति तदा तावदेव खण्डग्र- हणम्, यदा ग्राह्यं न स्पृशति तदा ग्रहणाभावः ॥ २० ॥ अथ सर्वग्रहणोपयोगमिष्टप्रासं चेन्द्रवज्राम्नयेणाह- CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/७६
दिखावट