(२०) करणकुतूहलमू। त्युत्तरशतांशा द्वाविंशत्यंशाधिकराशिपञ्चकं गुरोः ५।२२ कष्टौ ८१ एकाशीत्यंशा एकविंशत्यंशाधिकराशिद्वयं शुक्रस्य २।२१,शनेः पाठद्वयं शशाङ्काङ्गयमाः २६१ एकषष्टयुत्तरद्वि- शतांशाः राशयोऽष्टौ ८ एकविंशत्यंशाः २१शनेः। वा मतङ्गा- ग्नियमा इति पाठः। अष्टविंशत्यंशाधिकराशिसप्तकम् ७।२८ अत्र हेतुरुच्यते सिद्धान्तशिरोमणौ-शनिमन्दोच्चस्य कल्पे युगे- पवो ५४ अगणास्तत्पक्षे मतङ्गानियमाः इति पाठः।मन्दोच्चस्य कुसागराः ४१ भगणा इति पाठस्तत्पक्षे शशाङ्काङ्गयमाः २६१ उत्पद्यन्ते । यत्पक्षे युगेषवो भगणा इत्यार्यसिद्धान्त- मतं तथा चोक्तम्-सवितुरमीषाञ्च तथा धात्रादिसदनिसिच्च मन्दोच्चमिति । तथा च सूर्यसिद्धान्ते-गोऽग्नयः शनिमन्दस्य तत्पक्षे शनेर्मन्दोच्चम् ७।२८।३७ एतदेवार्यभटसम्मतम् । अथ मृगांककरणप्रदीपे करणभाष्यादिषु मतङ्गाग्नियमाः२३८ इति मन्दोच्चं गृहीतं क्रमेण तद्वाक्यमिति महीधरा हस्तिकरा नृपाःखम् ७।२८।१६।०मन्दोच्चकानि कुञ्जरानलकराः२३८ शनेलवाः कीर्तिता इति निजमृदूच्चसम्भवा निजमृदूचं सम्भवति मन्दोच्चं तु मतङ्गाग्नियमा इति शनेर्विशेष इत्याचार्यस्यैव पक्षेङ्गीकृतम् । उक्तं च-"ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये” इति वचनम् ॥ १॥ - CC-0. Kashmir Research Institute, Srinagar. Digitized by eGangotri
पृष्ठम्:करणकुतूहलम्.djvu/२५
दिखावट