भांसैश्च रहः कुर्याः प्रातन स्वादु भोजनम् । इति सूपकृतादिष्टस्तथेत्युक्त्वा गृहं ययौ ॥ २००
श्च फलभूतिं तं प्राप्तं राजा जगाद सः। गच्छ साहसिकं ब्रूहि सूपकारं महानसे ॥ २०१
आ देवीद्वितीयोऽद्य भोक्ष्यते स्वादु भोजनम्। अतस्त्वरितमाहारमुत्तमं साधयेरिति ॥ २०२
ते निर्गतं तं च फलभूतिं बहिस्तदा । एत्य चन्द्रप्रभो नास राज्ञः पुत्रोऽब्रवीदिदम् ॥ २०३
न शीघ्र हेम्ना मे करयाचैव कुण्डले । यादृशे भवता पूर्वमार्य तातस्य कारिते ॥ २०४
क्तो राजपुत्रेण फलभूतिस्तदैव सः । कृतानुरोधः प्रहितो ययौ कुण्डलयोः कृते ॥ २०५
पुत्रोऽप्यगात्स्वैरं कथितं फलभूतिना। राजादेशं गृहीत्वा तमेकाक्येव महानसम् ॥ २०६
क्तराजादेशं तं स्थितसंवित्स सूपकृत्। राजपुत्रं छुरिकया सद्यः साहसिकोऽवधीत् ॥ २०७
सैः साधितं तेन भोजनं च कृतार्चनौ। अभुञ्जतामजानन्तौ तत्त्वं राक्षी नृपस्तथा ॥ २०८
या च सानुतापस्तां रात्रिं राजा ददर्श सः । प्रातः कुण्डलहस्तं तं फलभूतिमुपागतम् ॥ २०९
न्तः कुण्डलोद्देशात्तं च पप्रच्छ तत्क्षणम् । तेनाख्यातस्ववृत्तान्तः पपात च भुवस्तले ॥ २१०
उत्रेति च चक्रन्द निन्दन्भार्या सहात्मना । पृष्टश्च सचिवैः सर्वं यथातत्वमवर्णयत् ॥ २११
च चैतदुक्तं तत्प्रत्यहं फलभूतिना । भद्रकृत्प्राप्नुयाद्भद्रमभद्रं चाप्यभद्रकृत् ॥ २१२
को भित्तिनिःक्षिप्त इव प्रतिफलन्मुहुः। आपतत्यात्मनि प्रायो दोषोऽन्यस्य चिकीर्षितः ॥ २१३
चरैर्यदस्माभित्रंह्महत्यां चिकीर्णाभिः। स्वपुत्रघातनं कृत्वा प्राप्तं तन्मांसभक्षणम् ॥ २१४
इत्वा बोधयित्वा च मन्त्रिणः स्वानधोमुखान् । तमेव फलभूतिं च निजे राज्येऽभिषिच्य सः ॥ २१५
प्रदत्तदानः सन्नपुत्रः पापशुद्धये । सभार्यः प्रविवेशानं दग्धोऽप्यनुशयग्निना ॥ २१६
भूतिश्च तद्राज्यं प्राप्य पृथ्वीं शशास सः। एवं भद्रमभद्रं वा कृतमात्मनि कल्प्यते ॥ २१७
वत्सेश्वरस्याने कथयित्वा कथामिमाम् । यौगन्धरायणो भूयो भूपतिं तमभाषत ॥ २१८
तव स .राजेन्द्र जित्वाप्याचरतः शुभम् । ब्रह्मदत्तो विकुर्वीत यदि हन्यास्त्वमेव तम् ॥ २१९
को मन्त्रिमुख्येण तद्वाक्यमभिनन्द्य सः। उत्थाय दिनकर्तव्यं वत्सेशो निरवर्तयत् ॥ २२०
वुश्च स संपन्नसर्वदिग्विजयः कृती । लावाणकादुद्चलत्कौशाम्बीं स्वपुरीं प्रति ॥ २२१
॥ नगरीं प्राप क्षितीशः सपरिच्छदः। उत्पताकाभुजलतां नृत्यन्तीसुत्सवादिव ॥ २२२
च चनां पौरस्त्रीनयनोत्पलकानने । वितन्वानः प्रतिपदं प्रवातारम्भविभ्रमम् ॥ २२३
गोदीयमानश्च स्तूयमानश्च बन्दिभिः। नृपैः प्रणम्यमानश्च राजा मन्दिरमाययौ ॥ २२४
ततो विनश्रेष्वधिरोप्य शासनं स वत्सराजोऽखिलदेशराजसु ।
पूर्व निधानाधिगतं कुलोचितं प्रसह्य सिंहासनमारुरोह तत् ॥ २२५
तत्कालमङ्गलसमाहततारधीरतूर्यारवप्रतिरवैश्च नभः पुपूरे
तन्मन्निमुख्यपरितोषितलोकपालदत्तैरिव प्रतिदिशं समसाधुवादैः ॥ २२६
विविधमथ वितीर्य वीतलोभो वसु वसुधाविजयाजितं द्विजेभ्यः।
अछुत कृतमहोत्सवः कृतार्थ क्षितिपतिमण्डलमात्ममत्रिणश्च ॥ २२७
क्षेत्रेषु वर्षति तदानुगुणं नरेन्द्रे तस्मिन्ध्वनद्धन मृदङ्गनिनादितायाम् ।
संभाव्य भाविबहुधान्यफलं जनोऽपि तस्यां पुरि प्रतिगृहं विहितोत्सवोऽभूत् ॥ २२८
एवं विजित्य जगतीं स कृती रुमण्वद्यौगन्धरायणनिवेशितराज्यभारः।
तथौ यथेच्छमथ वासवदत्तयात्र पझावतीसहितया सह वत्सराजः ॥ २२९
कीर्तिश्रियोरिव तयोरुभयोश्च देव्योर्मध्यस्थितः स वरचारणगीयमानः।
चन्द्रोदयं निजयशोधवलं सिषेवे शत्रुप्रतापमिव सीधु पपौ च शश्वत् ॥ २३०
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे लावाणकलम्यके षष्ठस्तरः।
समाप्तश्चायं लावाणकलस्बकस्तृतीयः ।
*****