पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
[ आदितस्तरङ्गः १७ ।।
कथासरित्सागरः

अथाजगाम भूलोकं तामादाय पुरूरवाः । स्वर्वधूद्र्शनाश्चर्यमर्षयन्मयैचक्षुषाम् ॥ १६

ततोऽनपायिनौ तौ द्वावुर्वशी च नृपश्च सः । अन्योन्यदृष्टिपाशेन निबद्धाविव तस्थतुः ॥ १७

एकदा दानवैः साकं प्राप्तयुद्धेन वक्रिणा । सायकार्थमाहूतो ययौ नाकं पुरूरवाः ॥ १८

तत्र तस्मिन्हते मायाधरनाम्यसुराधिपे । प्रनृत्तम्बर्वधूसार्थः शक्रस्याभवदुत्सवः ॥ १९

ततश्च रम्भां नृत्यन्तीमाचार्ये तुम्बरौ स्थिते । चलिताभिनयां दृष्ट्वा जहास स पुरूरवाः ॥ २०

जाने दिव्यमिदं नृतं किं त्वं जानासि मानुष। इति रम्भापि तत्कालं सासूयं तसभाषत ॥ २१

जानेऽहमुवंशीसङ्गमत्तद्यद्देति न तुम्बुरुः। युष्मद्रुरपीत्येनामुवाचाथ पुरूरवाः ॥ २२

तच्छुत्वा तुम्बुरुः कोपात्तस्मै शापमथादिशत् । जेंवंध्या ते वियोगः स्यादा कृष्णाराधनादिति ॥ २३

श्रुतशापश्च गत्वैव तमुर्वश्यै पुरूरवाः । अकालाशनिपातोत्रं स्ववृत्तान्तं न्यवेदयत्॥ २४

ततोऽकस्मान्निपत्यैव निन्ये कार्यपहृत्य सा। अट्टैस्तेन भूपेन गन्धर्वैरुर्वशी किळ ॥ २५

अवेत्य शापदोषं तं सोऽथ गत्वा पुरूरवाः। हरेराराधनं चक्रे ततो बदरिकाश्रमे ॥ २६

उर्वशी तु वियोगार्ता गन्धर्वविषयस्थिता । आसीन्मृतेव सुप्तैव लिखितेव विचेतना ॥ २७

आश्चर्यं यन्न सा प्राणैः शापान्ताशावलम्बिनी । मुक्ता विरहदीर्घमु चक्रवाकीव रात्रिषु ॥ २८

पुरूरवाश्च तपसा तेनाच्युतमतोषयत् । तस्प्रसादेन गन्धर्वो मुमुचुस्तस्य "बोर्वशीम् ॥ २९

शापान्तलब्धया युक्तः पुनरप्सरसा तया । दिव्यान्स राजा बुभुजे भोगान्भूतलवत्र्यपि ॥ ३०

इत्युक्त्वा विरते राज्ञि श्रुतोर्वंश्यनुरागया । प्रापि सोढवियोगत्वाद्रीडा वासवदत्तया ॥ ३१

तां दृष्ट्वा युक्त्युपालब्धां राज्ञा देवीं विलक्षिताम् । अथाप्याययितुं भूपमाह यौगन्धरायणः ॥ ३२

न श्रुता यदि तद्राजन्कथेयं श्रूयतां त्वया । अस्तीह तिमिरानाम नगरी मन्दिरं श्रियः ॥ ३३

तस्यां विहितसेनाख्यः ख्यातिमानभवन्नृपः। तस्य तेजोवतीत्यासीद्भार्या क्षितितलाप्सराः ॥ ३४

तस्याः कण्ठग्रहैकाग्रः स राजा स्पर्शलोलुभः । न सेहे कबुकेनापि क्षिप्रमाच्छुरितं वपुः ॥ ३५

कदाचित्तस्य राज्ञश्च जज्ञे जीर्णज्वरामयः । वैद्या निवारयामासुतया देठंयास्य संगमम् ॥ ३६

देवीसंपर्कहीनस्य हृदये तस्य भूभृतः। औषधोपक्रमसाध्यो व्याधिः समुदपद्यत ॥ ३७

भयाच्छोकाभिघाताद्वा राज्ञो रोगः कदाचन । स्फुटेयमिति स्माहुर्भिषजो मत्रिणं ॥ ३८

यः पुरा पृष्ठपतिते न तत्रास महोरगे । नान्तःपुरप्रविष्टेऽपि परानीके च चुक्षुभे ॥ ३९

तस्यास्य राज्ञो जायेत भयं सस्ववतः कथम् । नास्त्यत्रोपायबुद्धिर्नः किं कुर्मस्तेन मत्रिणः ॥ ४०

इति संचित्य संसद्य ते देव्या सह मन्त्रिणः । तां प्रच्छाद्य तमूचुश्च मृता देवीति भूपतिम् ॥ ४१

तेन शोकातिभारेण मथ्यमानस्य तस्य सः । पुस्फोट हृदयव्याधिविह्वलस्य सहीभृतः ॥ ४२

उत्तीर्णरोगविषये तस्मै राज्ञेऽथ मन्त्रिभिः। अर्पिता सा महादेवी सुखसंपद्वािपरा ॥ ४३

बहु मेने च सोऽप्येनां राजा प्राणप्रदायिनीम् । न पुनर्मतिमानस्थं चुक्रोधाच्छादितात्मने ॥ ४४

हितैषिता हेि या पत्युः सा देवीत्वस्व कारणम् । प्रियकारित्वमात्रेण देवीशब्दो न लभ्यते ॥ ४५

स मजिता च यद्राज्यकार्यभारैकचिन्तनम् । चित्तानुवर्तनं यत्तदुपजीवकलक्षणम् ॥ ४६

अतो मगधराजेन संधातुं परिपन्थिना । पृथ्वीविजयहेतोस्ते यत्नोऽस्माभिरयं कृतः ॥ ४७

 तेन देव भवद्भक्तिसोढासळवियोगया। देव्या नैवापराद्धं ते पूण तूपकृतिः कृता ॥ ४८

एतच्छुत्वा वचस्तस्य यथार्थं मुख्यमन्त्रिणः । मेनेऽपराद्धमात्मानं बत्सराजस्तुतोष च ॥ ४९

उवाच चैतज्जानेऽहं देव्या युष्मत्प्रयुक्तया । आकारवत्या नीत्येव सम नैव मेदिनी ॥ ५०

किं त्वतिप्रणयादेतन्मयोक्तमसमञ्जसम् । अनुरागान्धमनसां विचारसहता कुतः ॥ ५१

इत्यादिभिः समालभैर्वत्सराजः स तद्दिनम् । लज्जोपरागं देव्याश्च सममेवापनीतवान् ॥ ५२

अन्येद्युर्मगधेशेन प्रेषितो ज्ञातवस्तुना । दूतो वत्सेशमभ्येत्य तद्वाक्येन व्यजिज्ञपत् ॥ ५३

मन्त्रिभिस्ते वयं तावद्वञ्चित तत्तथाधुना । कुर्याः शोकमयो येन जीवलोको भवेन्न नः ॥ ५४