पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३४ ।]
४६९
शशाङ्कवतीलम्बकः १२ ।।

            अभिमतसिद्धयै भबृत्रिपुराबजये गणेश गौर्यापि ।
            यः पूजितोऽसि तं त्वां श्रितोऽस्मि शरणं नमस्तेऽस्तु ॥ ४८
अंस्तुतविघ्नेशो निराहारः कुशास्तरे । मृगाङ्गदत्तोऽनैषीत्तां रात्रिं तस्य तरोस्तले ॥ ४९
द्वादशाहानि श्रुतधौ परिचारके । विघ्नेशाराधनपरो राजपुत्रो निनाय सः ॥ ५०
ऽढि निशि स्वप्ने तं जगाद गणेश्वरः । वरस तुष्टोऽस्मि ते मुक्तशापान्प्राप्स्यसि मत्रिणः ॥ ५१
च तैः समं प्राप्य तां शशाङ्कवतीं क्रमात् । प्रत्यावृत्य स्वनगरीं पृथ्वीराज्यं करिष्यसि ॥ ५२
गणेश्वरादिष्टः प्रबुद्धः स निशाक्षये । मृगाङ्कदत्तः स्वनं तं दृष्टं श्रुतधयेऽभ्यधात् ॥ ५३
भनन्दितः प्रातः स्नात्वाभ्यर्य विनायकम् । तद्वासवृक्षे तं यावत्कुरुते स प्रदक्षिणम् ॥ ५४
समं तरोस्तस्मादवतीर्य दशापि ते । फलत्वमुक्ताः सचिवा निपेतुस्तस्य पादयोः ॥ ५५
सेनस्तथा स्थूलबाहुर्मेघबलोऽपि च । दृढमुष्टिश्चतुर्थश्च षट् चादौ येऽत्र वर्णिताः ॥ ५६
            ततः स सकलान्समं सपदि मत्रिणः प्राप्य तान्
            दृशाकुलित या गिर प्रमदमन्थरारम्भया ।
            नरेश्वरसुतोऽधिकप्रणयमेकमेकं मुहु-
            ददर्श परिषस्वजे तदनु संबभाषे कृती ॥ ४७
            तेऽपि नवेन्दुमं कृततपसं वीक्ष्य तं प्रभु सास्राः ।
            श्रुतधिनिगदितयथार्थाः प्रशशंसुर्नाथवन्तमास्मानम् ॥ ४८
            अथ तत्र स तैर्मुगाङ्गदत्तः सरसि कृताप्लवनादिभिः सहैव ।
            सचिवैः सुखपारणं सहधं विदधे लब्धधृतिः स्वकार्यसिद्धये ॥ ४९

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके त्रयस्त्रिंशस्तरङ्गः ।


_____


चतुस्त्रिंशस्तरङ्गः।


सोऽत्र सरस्तीरे कृतपारणसुस्थितः । मृगाङ्कदत्तस्तैः साकं सचिवैः स्वैरुपाविशत् ॥ १
ते तदहः प्राप्ताश्चत्वारो निजमन्त्रिणः । तेनापृच्छयन्त विश्लेषकालवृत्तान्तमादरात् ॥ २
स व्याघ्रसेनाख्यस्तेषां मध्यात्तमब्रवीत् । देवास्मदीयवृत्तान्तं श्रूयतां वर्णयाम्यहम् ॥ ३
पारावताख्यस्य तस्य नागस्य शापतः । भवयो दूरविभ्रष्टो जातौऽहं नष्टचेतनः ॥ ४
भ्रान्त्वाटवीं रात्रौ लब्धसंज्ञोऽप्यहं चिरात् । न दिशो न च पन्थानमपश्यं तमसा वृतः ॥ ५
च दुःखदीर्घयां गतायां विरतिं निशि । उदिते भगवत्यसै क्रमादाशाप्रकाशके ॥ ६
(न्तयमहं हा धिक् क नु यातः स नः प्रभुः । अस्मद्वियुक्तश्चैकाकी कथं सोऽत्र भविष्यति ॥ ७
वा तमवाप्स्यामि कुत्रान्विष्यामि का गतिः । वरमुज्जयिनीं यामि तत्र प्राप्येत जातु सः ॥ ८
शशाङ्कवतीहेतोर्गन्तव्या तस्य हि स्थिता । इत्याशया शनैः प्रायामहमुज्जयिनीं प्रति ॥ ९
मानोऽथ कष्टां तामटवीं दुर्दशामिव । दह्यमानोऽर्ककिरणैरग्निचूर्णात्करैरिव ॥ १०
चित्प्राप्तवानस्मि सरः फुल्लोत्पलेक्षणम् । हंसादिमधुरारावैः संभाषणमिवाचरत् ॥ ११
तवीचिहस्तागं प्रसन्नविपुलाशयम् । दर्शनादेव सर्वार्तिहरं सत्पुरुषं यथा ॥ १२
स्नात्वा च भुक्त्वा च बिसान्यापीय वारि च । यावत्थितोऽस्मि तावत्रीनेतानद्राक्षमागतान् ॥ १३
मुष्टिमथ स्थूलबाहुं मेघबलं तथा । समेत्य च भवद्वार्ता मिथोऽस्माभिरपृच्छथत ॥ १४
नन्तश्च सर्वेऽपि वयं ते पापशङ्किनः । अकार्म देहत्यागाय मतिं त्वद्विरहासहाः ॥ १५
च्च तस्मिन्सरसि स्नातुं मुनिकुमारकः । आगमदीर्घतपसः सुतो नाम्ना महातपाः ॥ १६
कृतनिजज्वालो भूयोऽग्निरिव खाण्डवम् । दिधक्षुराश्रितो ब्राह्मीं प्रज्वछंस्तेजसा तनुम् ॥ १७
गाजिनेन संवीतः स येनात्तकमण्डलुः । दक्षिणेन करेणाक्षमालावल्यमुद्वहन् ॥ १८