पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
[आदितस्तरङ्गः १
कथासरित्सागरः ।


स चापि तुरगारूढो राजपुत्र्या तया सह । मृगाङ्कवल्या श्रीदत्तः प्रययौ तान्सखीन्प्रति ॥१२६

स्तोकं गत्वा च तस्याश्वः संग्रामे व्रणितो भृशम् । सभार्यस्यावतीर्णस्य पपात प्राप पञ्चताम् ॥ १२७

तकालं चास्य तत्रैव सा मृगाङ्कवती प्रिया। नासायासपरिश्रान्ता तृषार्ता समपद्यत ॥ १२८

स्थापयित्वा च तां तत्र गत्वा दूरमितस्ततः जलमन्विष्यतश्चास्य सवितास्तमुपाययौ ॥ १२९

ततः स लठ्धेऽपि जले मार्गनाशवशाद्धमम् । चक्रवाकवदुत्कूजंस्तां निनाय निशां वने ॥ १३०

प्रातः प्राप च तत्स्थानं पतिताश्वोपलक्षितम् । न च तत्र कचित्कान्तां राजपुत्रीं ददर्श ताम् ॥ १३१

ततः स मोहाद्विन्यस्य भुवि खङ्गं मृगाङ्ककम्। वृक्षाप्रमारुरोहैनामवेक्षितुमितस्ततः ॥ १३२

तत्क्षणं तेन मार्गेण कोऽप्यागाच्छबराधिपः। स चायंव जग्राह वृक्षमूलान्मृगाङ्ककम् ॥ १३३

तं दृष्ट्वापि स वृक्षश्रादवतीयैव पृष्टवान् । प्रियाप्रवृत्तिमत्यार्तः श्रीदत्तः शबराधिपम् ॥ १३४

इतस्त्वं गच्छ मपल्लीं जाने सा तत्र ते गत। अहं तत्रैव चेष्यामि दास्याम्यसिमिमं च ते ॥ १३५

इत्युक्त्वा प्रेषितस्तेन शबरेण स चोत्सुकः । श्रीदत्तस्तां ययौ पल्ल तदीयैः पुरुपैः सह ॥ १३६

श्रमं तावद्विमुञ्चेति तत्रोक्तः पुरुत्रैश्च तैः । प्रप्य पल्लीपतेर्गेहं श्रान्तो निद्रां क्षणाद्ययौ ॥ १३७

प्रवृद्धश्च ददर्श स्वौ पादौ निगडसंयुतौ । अलब्धत दंती कान्ताप्राप्युपायोद्यमाविव ,, १३८

अथ क्षणं दत्तसुखां क्षणान्तरबिमाथिनीम् । दैवस्येव गतिं तत्र तस्थौ शोचस तां प्रियाम् ॥ १३९

एकदा तमुवाचैत्य चेटी मोचनिकाभिधा । आगतोऽसि महाभाग कुत्रेह बत मृत्यवे ॥ १४०

कार्यसिद्ध्यै स हि कापि प्रयातः शबराधिपः। आगत्य चण्डिकायास्त्वामुपहरीकरिष्यति ॥ १४१

एतदर्थं हि तेन त्वमितो विन्ध्याटवीतटात् । प्राप्य युतभा विसृज्येह नीतः संप्रति बन्धनम् ॥ १४२

भगवत्युपहारत्वे यत एवासि कल्पितः । अत एव सदा वस्तूंभजनैश्चोपस्चर्यसे ॥ १४३

एकस्तु मुक्त्युपायस्ते विद्यते यदि मन्यसे । अस्यस्य सुन्दरी नाम शबराधिपतेः सुता ॥१४४

अत्यर्थं सा च दृष्टा त्वां जायते मदनातुरा । तां भजस्व वयस्यां मे ततः क्षेममवाप्स्यसि ॥ १४५

तथेत्युक्तो विमुक्त्यर्थं स श्रीदत्तस्तथेति ताम् । गान्धर्वविधिना गुप्तं भार्यां व्यधित सुन्दरीम् ॥ १४६

रात्रौ रात्रौ च सा तस्य बन्धनानि न्यवारयत् । अचिराच्च सगर्भा सा सुन्दरी समपद्यत ॥ १४७

तत्सर्वमथ तन्मता बुड् मोचनिकामुखत् । जामातृस्नेहतो गत्वा स्वैरं श्रीदमब्रवीत् ॥ १४८

श्रीचण्डनामासौ कोपनः सुन्दरीपिता । न त्वां क्षमेत तद्वच्छ विस्मर्तव्या न सुन्दरी ॥ १४९

इत्युक्त्वा मोचितः श्वश्वा खङ्ग श्रीचण्डहस्तगम् । सुन्दरें निजमायेद्य श्रीदत्तः प्रययौ ततः ॥ १५०

विवेश चाद्यां तामेव चिन्ताक्रान्तो निजाटवीम् । मृगाङ्कवत्याः पदवीं तस्या जिज्ञासितुं पुनः ॥ १५१

निमित्तं च शुभं दृष्ट्वा तमेवोद्देशमाययौ । यत्रास्याश्वो मृतः सोऽथ यत्र सा हारिता ॥ १५२

तत्र चैकं ददर्शाराक्षुब्धकं संमुखागतम् । दृष्ट्वा च पृष्टवांतस्याः प्रवृत्तिं हरिणीदृशः ॥ १५३

किं श्रीदत्तस्त्वमित्युक्तो लुब्धकेन च । तत्र स । स एव मन्दभाग्योऽहमित्युवाच विनिःश्वसन् ॥ १५४

ततः स लुब्धकोऽवादीत हि वच्मि सूखे शृणु । दृष्टा सा ते मया भार्या क्रन्दन्ती त्वामितस्ततः ॥ १५५

यदा ततश्च वृत्तान्तमाश्वास्य च कृपाकुलः । निजां पल्लीमितोऽरण्यादीनां तां नीतवानहम् ॥ १५६

तत्र चालोक्य तरुणान्पुलिन्दान्सभयेन सा । मथुशनिकटं ग्रामं नीता नागस्थलं मया ॥१५७

तत्र च स्थापित गेहे स्थविरस्य द्विजन्मनः । विश्वदत्ताभिधानस्य न्यासीकृत्य सगौरवम् ॥ १५८

ततश्चाहमिहायातो बुबा त्वन्नाम तन्मुखात् । तामन्वेष्टुं ततो गच्छ शीघ्र नागठं प्रति ॥१५९

इस्युक्तो लुब्धकेनाशु स श्रीदतस्ततो ययै । तं च नाशस्थलं प्रापदपरेद्युर्दिनात्यये ॥ १६०

भवनं विश्वदत्तस्य प्रविश्याथ विलोक्य तम् । ययाचे देहि मे भार्या चुब्धकस्थापितामिति ॥ १६१

तच्छुत्वा विश्वदत्तस्तं श्रीदत्तं निजगाद सः । मथुरायां सुहृन्मेऽस्ति ब्राह्मणो गुणिनां प्रियः ॥१६२

उपाध्यायश्च मन्त्री च शूरसेनस्य भूपतेः । तस्य हस्ते त्वदीया सा गृहिणी स्थापिता मया ॥ १६३

अयं हि विजन प्रामो न तद्रक्षक्षमो भवेत् । तत्प्रातस्तत्र गच्छ त्वमद्य विश्रम्यतामिह ॥
 १६४