सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
तरङ्गः २४ ।]
४४७
शशाङ्कवतीलम्बकः १२ ।

एतन्निशम्यैव नृपस्य तस्य वक्यं स वेतालवरो जगाम ।
पुनः स्वधामैव तदंसपृष्ठान्नृपोऽपि तं सोऽनुययौ तथैव ॥ २०७

इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलचके त्रयोविंशस्तरङ्गः


_____


चतुर्विंशस्तरङ्गः


( सप्तदशो वेतालः ।)


ततो गत्वा पुनस्तस्मात्स राजा शिंशपातरोः । तं त्रिविक्रमसेनोऽसे वीरो बेतालमग्रहीत् तरङ्गः ॥१
प्रस्थितं च ततस्तं स वेतालः स्कन्धतोऽब्रवीत् । राजञ्श्रमविनोदाय ऋण्वेतां वच्मि ते कथाम् ॥ २
अखण्डधर्ममर्यादं गङ्गाकूले कृतास्पदम् । कलेरगम्यं कनकपुरं नाम्नाभवत्पुरम् ॥ ३
तस्मिन्यशोधनाख्योऽभूदन्वर्थो वसुधाधिपः । ररक्ष विप्लवाम्भोधेर्यो वेलाद्रिरिव क्षितिम् ॥ ४
जगदाळूदकश्चण्डप्रतापोऽखण्डमण्डलः। विधिना यश्च चन्द्रार्कोवेकीङ्कयेव निर्ममे ॥ ५
मौर्य परपरीवादे न शास्त्रार्थे दरिद्रता । दोषे न कोषदण्डाभ्यां यस्यासीच्च महीपतेः ॥ ६
पापभीरुर्यशोलुब्धः षण्ढः परपुरंध्रिषु । यः शौर्योदर्यश्रुङ्गारमयो जनतया जगे ॥ ७
तस्य राज्ञः पुरे तस्मिन्नभूदेको महापणिक् । उन्मादिनीति ख्याता च कन्या तस्याभवसुता ॥ ८
यो यस्तां हि ददर्शात्र स स तदुपसंपदा। उन्माद्यति स्म मदनस्यापि मोहनशक्तया ॥ ९
तस्यां च यौवनस्थायां स गत्वा तत्पिता वणिक् । यशोधनं तं राजानं नीतिवेदी व्यजिज्ञपत् ॥ १०
त्रैलोक्यरत्रभूता से प्रदेयास्ति सुता प्रभो । तासनावेद्य देवस्य नान्यस्मै दातुमुत्सहे ॥ ११
देवोऽपि सर्वरत्नानां प्रभुः कृतेऽपि भूतले । तरस्वीकृत्यानुगृह्यतु देवस्तां प्रतिमुच्य वा ॥ १२
इत्याकण्थं वणिग्वाक्यं स राजा ब्राह्मणान्निजान्। सादरं व्यसृजत्तस्याः सौलक्षण्यमवेक्षितुम् ॥ १३
ते गत्वा ब्राह्मणा दृष्ट्वा तां त्रैलोक्यैकसुन्दरीम् । सद्यः क्षोभं ययुः प्रिालब्ध्वा धैर्यमचिन्तयन् ॥ १४
इमां प्राप्नोति चेद्राज तद्राष्ट्रवसीदति । एतन्मोहितचित्तो हि किं स राज्यमवेक्षते ॥ १५
तस्मात्सुलक्षणेत्येषा नाख्येया क्षितिपाय नः। इयेव मन्त्रं संमद्य राज्ञस्ते जग्मुरन्तिकम् ॥ १६
कुलक्षणा सा देवेति तमूचुश्चात्र ते मृषा । तेन राजा स नैवैतां स्वीचकार वणिक्सुताम् ॥ १७
ततस्तदाज्ञया तां स कन्यामुन्मादिनीं पिता ।'वणिग्बलधराख्याय तत्सेनापतये ददौ ॥ १८
अथ सा तळूहे तस्थौ भर्ता तेन समं सुखम् । कुलक्षणेत्यहं राज्ञा त्यक्तेत्यात्तविमानना ॥ १९
याति काले च जात्वत्र इव हेमन्तहस्तिनम् । फुलकुन्दलतान्तं मथिताम्बुजिनीवनम् ॥ २०
आजगाम लसत्पुष्पमञ्जरीकेसरावलिः । चूताङ्रनखः क्रीडन्कानने मधुकेसरी ॥ २१
तत्कालं चात्र नगरे तं वसन्तमहोत्सवम् । स राजा निर्ययौ द्रष्टुं गजारूढो यशोधनः ॥ २२
तदूपालोकसंभाव्यविप्लवाः कुलयोषितः। अपसारयितुं दत्तं तदा चोद्धोषडिण्डिमम् ॥ २३
स श्रुत्वोन्मादिनी तस्मै राज्ञे स्वगृहहीतः । आत्मानं दर्शयामास परित्यागावसानतः ॥ २४
स च चुक्षुभे दृष्ट्वा राजा ज्वालामिवोन्नतम् । संधुक्षितस्य कामानेर्मधुना मळयानिलैः ॥ २५
तां
निर्वर्णयंश्च तदूपं जैत्रमस्त्रं मनोभुवः । गाढं प्रविष्टं हृदये क्षणान्मोहमुपाययौ ॥ २६
भृयैराश्वसितभ्त्र राजधानीं प्रविश्य सः। पृष्टेभ्यो बुयुधे तेभ्यस्तां प्रागुपनतोज्झिताम् ॥ २७
ततो निर्वास्य देशान्तांस्तत्फुलक्षणवादिनः । विप्राननुदिनं दध्यौ तामेवोकः स भूपतिः ॥ २८
सति २९
अहो जडात्मा निर्लज्जश्चन्द्रो नित्यमुदेति यत् । जगन्नेत्रोत्सवे तस्या निष्कलले मुखे ॥ २९
कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ। लभते नोपमामस्याः स्तनयोः पीनतुङ्गयोः ॥ ३०
काबीनक्षत्रमालाकं तत्तस्या जघनस्थलम् । कं न कंपैमातङ्गमस्तकाभं विलोभयेत् ॥ ३१
इति तां चिन्तयन्नन्तः क्षीयते स्म दिने दिने । कामग्निपुटपकेन पच्यमानः स भूपतिः ॥ ३२
ह्रिया निगूहमानश्च पृच्छन्त्यो बाह्यरूक्षणैः । झुन्झाच्छशंस चाप्तेभ्यः स्वपीडाकरणं स तत् ॥ ३३