सामग्री पर जाएँ

पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४३६
[ आदितस्तरङ्गः ८८ ।
कथासरित्सागरः ।

प्रक्षाल्य पाणिपादं च वार्यामाचम्य चत्र सः । यावद्भक्षयितुं तुष्टः परमान्नमुपैति तत् ॥ ४२
तावदुहीत्वा कृष्णाहं चध्वा पादयुगेन च । श्येनः कुतश्चिदागत्य तौ तस्मिन्नुपाविशत् ॥ ४३
तेन तस्योह्यमानस्य सर्पस्याक्रम्य पक्षिणा । उक्रान्तजीवितस्यास्याद्विषणाया विनिर्ययौ ॥ ४४
सा तथाधःस्थिते तस्मिन्नन्नपात्रेऽपतत्तदा । तचादृष्टा हरिस्वामी स एत्याग्नमभुङ तह ॥ ४५
क्षुधार्तस्य तदा तस्य मृष्टान्नं तत्क्षणेन तत् । कृत्स्नं भुक्तवतस्तीत्रा प्रोदभूद्विषवेदना ॥ ४६
अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । यद्विषीभूतमने मे सक्षीरघृतशर्करम् ॥ ४७
इति जल्पन्विषार्तः स हरिस्वामी परिस्खलन् । गवा तां सत्रिणस्तस्य विप्रस्योवाच गेहिनीम् ॥ ४८
त्वद्दत्ताद्विषमन्नान्मे जातं तद्विषमत्रिणम् । कंचिन्ममानय क्षिप्रं ब्रह्महत्यान्यथास्ति ते ॥ ४९
इत्युक्वैव स तां साध्वीं किमेतदिति विह्वलाम् । हरिस्वामी परावृत्तनेत्रः प्राणैध्र्ययुज्यत ॥ ५०
ततः सा तेन निर्देषाष्यातिथेय्यपि सत्रिणा। भायी निष्कालिता गेहान्मिथ्यातिथिबधङधा ॥ ५१
साप्युत्पन्नमृषावद्या सुशुभादपि कर्मणः। जाताबमाना तपसे साध्वी तीर्थमशिश्रियत् ॥ ५२
कस्य विप्रवधः सोऽस्तु सर्पश्येनान्नदेष्विति । तदाभूद्धर्मराजाने वादो नासीत्तु निर्णयः ॥ ५३
तत्रिविक्रमसेन त्वं राजन्गृहि समधुना । कस्य सा ब्रह्महत्येति पूर्वः शापः स तेऽन्यथा ॥ ५४
इति बेतालतः श्रुत्वा राजा शापनियञ्जितः । स त्रिविक्रमसेनस्तं मुक्तमौनोऽब्रवीदिदम् ॥ ५५
तस्य तत्पातकं तावत्सर्पस्य यदि वास्य कः । विवशस्यापराधोऽस्ति भक्ष्यमाणस्य शत्रुणा ॥ ५६
अथ श्येनस्य तेनापि किं दुष्टं क्षुधितात्मना । अकस्मास्मान्नमानीय भक्ष्यं भक्षयता निजम् ॥ ५७
दंपत्योरन्नदात्रोर्वा तयोरेकस्य वा कुतः । अभाध्यदोषौ धर्मकप्रवृत्तौ तावुभौ यतः ॥ ५८
तदहं तस्य मन्ये स । ब्रह्महत्या जडात्मनः । अधिचायैव यो ब्रूयादेषामेकतमस्य ताम् ॥ ५९
                इत्युक्तवतोऽस्य नृपस्यांसाठूयोऽप्यगात्स वेताछः ।
                निजपदमेव नृपोऽपि स पुनरपि धीरस्तमन्वगादेव ॥ ६०

इति महाकविश्रीसो सदवभऋविरचिते कथासरित्सागरे शशाङ्कवतीयम्बके विंशस्तरः।


_____


कविंशतरङ्गः ।


(चतुर्दशो वेतालः ।)


स त्रिविक्रमसेनोऽथ गत्वा तं शिंशपातरोः । भूयोऽयासाद्य वेतालं स्कन्धे जग्राह भूपतिः ॥ १
प्रस्थितं च तमुर्वीशं स वेतालोऽभ्यधात्पुनः । राजञ्श्रान्तोऽसि तच्चित्र कथामख्यामि ते शृणु ॥ २
अस्त्ययोध्येति नगरी राजधानी बभूव या । रक्षःकुंछकृतान्तस्य रामरूपस्य शार्जिणः ॥ ३
तस्यां राजाभवद्वीरकेतुर्नाम ररक्ष यः। क्षोणीमिमां महाबाहुः प्राकारो नगरीमिव ॥ ४
तस्मिन्महीपतावस्यां पुर्यामेको महावाणि । रत्नदत्ताभिधानोऽभूद्भणिनिवहनाथकः ॥ ५
नन्द्यन्यभिधानायां पत्न्यां तस्योदपद्यत । सुता रत्नवती नाम देवताराधनाजिता ॥ ६
सा च तस्य पितुर्वेश्मन्यवर्धत मनस्विनी । रूपलावण्यविनयैः सहैव सहजैर्गुणैः ॥ ७
यौवनस्थां च तां तस्माद्रत्नदन्तान्न केवलम् । सद्दन्तो वणिजो यावद्राजानोऽपि ययाचिरे ॥ ८
सा तु पुंड्रेषिणी नैच्छद्भर्तारमपि वासवम् । प्राणत्यागोद्यता सेहे न विबाहकथामपि ॥ ९
तेन तस्याः पिता तूष्णीं तस्थौ वत्सल्यदुःस्थितः । स च प्रवादोऽयोध्यायां तस्यां सर्वत्र पप्रथे ॥ १०
अत्रान्तरे सदा वै रैनृष्यमाणाः किलाखिलाः । संभूयात्र नृपं पौरा वीरकेतुं व्यजिज्ञपन् ॥ ११
नित्यं मुष्यामहे चैौरै रात्रौ रात्राविह प्रभो । लक्ष्यन्ते ते च नास्माभिस्तद्देवो वेतु यत्परम् ॥ १२
इति पौरैः स विज्ञप्तो राजा तामभितः पुरीम् । तस्करान्वेषणे छन्नान्मदिशद्रात्रिरक्षकान् ॥ १३
--पुर्नयचौरान्पुरी सामुष्यतैव च । तदैकदा स्वयं राजा निशि स्वैरं विनिर्ययौ ॥ १४
वातशत्रोऽन्न भ्रमन्सोऽपश्यदेकतः । एकं प्राकारgन यान्तं कमपि पूरुषम् ॥ १५