तं वञ्चयितुमिन्द्रोऽथ कृत्वा श्येनवपुः स्वयम् । मायाकपोतवपुषं धर्ममन्वपतद्रुतम् ॥ १००
कपोतश्च भयाद्त्वा शिबेरह्मशिश्रियत् । मनुष्यवाचा श्येनोऽथ स तं राजानमब्रवीत् ॥ १०१
राजन्भक्ष्यमिदं मुश्च कपोतं क्षुधितस्य मे । अन्यथा मां मृतं विद्धि कस्ते धर्मस्ततो भवेत् ॥ १०२
ततः शिबिरुवाचैनमेष मे शरणगतः। अयाज्मस्तद्ददाम्यन्यन्मांसमेतत्समं तव ॥ १०३
श्येनो जगाद यद्येवमात्ममांसं प्रयच्छ मे । तथेति तत्प्रहृष्टः सन्स राजा प्रत्यपद्यत ॥ १०४
यथा यथा च मांसं स्वमुञ्चस्यारोपयनृपः । तथा तथा तुलायां स कपोतोऽभ्यधिकोऽभवत् ॥ १०५
ततः शरीरं सकलं तुलां राजाध्यरोपयत् । साधु साधु समं त्वेतद्दिघ्था वागुदभूत्ततः ॥ १०६
इन्द्रधमौं ततस्त्यक्त्वा रूपं श्येनकपोतयोः । तुष्टावक्षतेहं तं राजानं चक्रतुः शिबिम् ॥ १०७
दत्त्वा चास्मै वरानन्यांस्तावन्तर्धानमीयतुः। एवं मामपि कोऽप्येष देवो जिज्ञासुरागतः ॥ १०८
इत्युक्त्वा सचिवान्स्वैरं स सुशर्मा महीपतिः । तमुवाच भयप्रदो विप्ररूपं गणोत्तमम् ॥ १०९
अभयं देहि सायैव स्नुषा ते हारिता निशि। माययैव गता कापि रक्ष्यमाणाप्यहर्निशम् ॥ ११०
कृच्छूात्स व्ययेवाथ विप्ररूपो गणोऽब्रवीत् । तर्हि पुत्राय राजन्मे देहि स्वां तनयामिति ॥ १११
तच्छुत्वा शापभीतेन राज्ञा तस्मै निजा सुता । सा दत्ता देवदत्ताय ततः पञ्चशिखो ययौ ॥ ११२
देवदत्तोऽपि तां भूयः प्रकाशं प्राप्य वल्लभाम् । जत्रुभेऽनन्यपुत्रस्य श्वशुरस्य विभूतिषु ॥ ११३
कालेन तस्य पुत्रं च दौहित्रमभिषिच्य सः । राज्ये महीधरं नाम सुशर्मा शिश्रिये वनम् ॥ ११४
ततो दृष्ट्वा सुतैश्वर्यं कृतार्थः स तपोवनम् । राजपुत्र्या तया साकं देवदत्तोऽप्यशिश्रियत् ॥ ११५
तत्राराध्य पुनः शंभं त्यक्त्वा मयेकलेवरम् । तत्प्रसादेन तस्यैव गणभावमुपागतः ॥ ११६
प्रियादन्तोज्झितात्पुष्पात्संज्ञां न ज्ञातवान्यतः । अतः स पुष्पदन्ताख्यः संपन्नो गणसंसदि ॥ ११७
तन्त्र्या च प्रतीहरी देव्या जाता जयाभिधा । इत्थं स पुष्पदन्ताख्यो मदाख्यामधुना शृणु ॥ ११८
यः ख गोविन्ददत्ताख्यो देवदत्तपिता द्विजः । तस्यैव सोमदत्ताख्यः पुत्रोऽहमभवं पुरा ॥ ११९
तेनैव मन्युना गवा तपश्नाहं हिमाचले । अकार्यं बहुभिर्माल्यैः शंकरं नन्दयन्सदा ॥ १२०
तथैव प्रकटीभूतान्प्रसन्नादिन्दुशेखरात् । त्यक्तान्यभोगलिप्सेन तणत्वं मया वृतम् ॥ १२१
यः पूजितोऽस्मि भवता स्वयमाहृतेन माल्येन दुर्गवनभूमिसमुद्भवेन ।
तन्माल्यवानिति भविष्यसि मे गणस्त्वमित्यादिशच्च स विभुर्गिरिजापतिर्माम् ॥ १२२
अथ मत्येवपुविमुच्य पुण्य सहसा तद्भणतामहं प्रपन्नः ।
इति धूर्जटिना कृतं प्रसादादभिधानं मम माल्यवानितीदम् ॥ १२३
सोऽहं गतः पुनरिहद्य मनुष्यभावं शापेन शैलदुहितुर्बत काणभूते ।
तन्मे कथां हरकृतां कथयाधुना त्वं येनावयोर्भवति शापशोपशान्तिः ॥ १२४
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे कथापीठलम्बके सप्तमस्तरङ्गः।
*****
अष्टमस्तरङ्गः
एवं गुणाढ्यवचसा साथ संप्तकथामयी । स्वभाषया कथा दिव्या कथिता काणभूतिना ॥ १
तथैव च गुणाढ्येन पैशाच्या भाषया तया । निबद्ध सप्तभिर्वर्षीन्थलक्षाणि सप्त सा ॥ २
मैतां विद्याधरा हार्षीरिति तामात्मशोणितैः । अटव्यां सध्यभावाच लिलेख स महाकविः॥ ३
तथा च श्रोतुमायातैः सिद्ध विद्याधरादिभिः । निरन्तरमभूत्तत्र सवितानमिवाम्बरम् ॥ ४
गुणाढ्येन निबद्धां च तां हश्चैव महकथाम् । जगाम मुक्तशापः सन्काणभूतिर्निजां गतिम् ॥ ५
पिशाचा येऽपि तत्रासन्नन्ये तत्सहचारिणः। तेऽपि प्रापुर्दिवं सर्वे दिव्यामाकण्यं तां कथाम् ॥ ६
प्रतिष्ठां प्रापणीयैषा पृथिव्यां मे बृहत्कथा । अयमर्थोऽपि मे देव्या शापान्तोक्तावुदीरितः ॥ ७
तत्कथं प्रापयाम्येनां कस्मै तावत्समर्पये । इति चाचिन्तयत्तत्र स गुणाढ्यो महाकविः ॥ ८