पृष्ठम्:कथासरित्सागरः - सोमदेवभट्टः - १९०३.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१चा वरदाभूभ्रष्ट' तन!।श्राव । म ग । श्र ॥
थैव तस्य भार्या च सा जातारण्यसूकरी । सोऽयं शुकः पुराधीतं वेत्ति चैव तपोबलात् ॥
थ कर्मगतिं चित्रां दृष्टस्य हसितं मया । एतां राजसदस्युक्त्वा कथां चैष विमोक्ष्यते ॥
गेमप्रभश्च तामस्य सुतां द्युचरजन्मनि । प्राप्स्यत्येव निषादीत्वमागतां मकरन्दिकाम् ॥
नोरथप्रभा तं च जातं संप्रति भूमिपम् । रश्मिमन्तं मुनिसुतं तदैव पतिमाप्स्यति ॥
सप्रभोऽपि पितरं दृgा गत्वा तदाश्रमे । सांप्रतं स प्रियाप्राथै झर्वमाराधयन्स्थितः ॥
याख्याय कथां तत्र पुलस्त्यो व्यरमन्मुनिः। अहं च जातिमस्मार्षे हर्षशोकपरिप्लुतः॥
तो येनाहमभवं नीतस्तत्कृपयाश्रमम् । स मरीचिमुनिस्तन्न गृहीत्वा मामबघीयत् ॥
तपक्षश्च पक्षित्वसुलभाच्चपलादहम् । इतस्ततः परिभ्राम्यन्विद्याश्चर्यं प्रदर्शयन् ॥
|षादहस्ते पतितः क्रमप्राप्तस्त्वदन्तिकम् । इदानीं च मम क्षीणं दुष्कृतं पक्षियोनिजम् ॥
इति सदसि कथामुदीर्थे तस्मिन्विदुषि शुके विरते विचित्रवाचि ।
सपदि स सुमनोमहीभृदसीप्रमदतरङ्गितविस्मृतान्तरात्मा ॥
अत्रान्तरे तं परितुष्य शंभुः स्वप्ने च सोमप्रभमादिदेश ।
उत्तिष्ठ राजन्सुमनोनृपस्य पार्श्व व्रज प्राप्स्यसि तत्र कान्तम् ॥
मुक्तलताख्या पितृशापतो । हि भूत्वा निषादी मकरन्दकाख्या ।
आदाय तं स्वं पितरं गतस्य राज्ञोऽन्तिकं सा शुकतामवाप्तम् ॥
स्मरिष्याति त्वां तु विलोक्य जातिं विद्याधरी सा विनिवृत्तशपा ।
अन्योन्यविज्ञानविवृद्धहर्षशोभी भविष्यत्यथ संगमो वाम् ॥
इति भूमिपतिं निगद्य तं गिरिशः स्वाश्रमगां तथैव ताम् ।
अपरां स मनोरथप्रभां भगवान्भक्तकृपालुरब्रवीत् ॥
यो रश्मिमान्मुनिसुतोऽभिमतो वरस्ते जातः स संप्रति पुनः सुमनोभिधानः।
तत्तत्र गच्छ तमवाप्नुहि स स्वजातिं सद्यः स्मरिष्यति शुभे तव दर्शनेन ॥
एवं ते सोमप्रभविद्याधरकन्यके पृथग्विभुना ।
स्वपदेष्टे नृपतेस्तस्य सः सुमनसस्तद् ययतुः ॥
सोमप्रभं तत्र च तं विलोक्य संस्मृत्य जातिं मकरन्दिका स्वम्।
दिव्यं प्रपद्येव निजं वपुस्तज्जग्राह कण्ठे चिरशापमुक्ता ॥
सोऽपि प्रसादद्भिरिजापतेस्तां संप्राप्य विद्याधरराजपुत्रीम् ।
सोमप्रभः साकृतिदिव्यभोगलक्ष्मीमिवाश्लिष्य कृती बभूव ॥
स चापि दृश्चैव मनोरथप्रभां स्मृतस्वजातिः सुमनोमहीपतिः ।
प्रविश्य पूर्वी नभसयुतां तनं मुनीन्द्रपुत्रश्च बभूव रश्मिमान् ॥
तया च संगम्य पुनः स्वकान्तया चिरोत्सुकः स प्रययौ स्वमाश्रमम्।
ययौ स सोमप्रभभूपतिश्च तां प्रियां समादाय निजां निजं पुरम् ॥
शुकोऽपि भुक्त्वैव स वैहगीं तनं जगाम धाम स्वतपोभिराजितम्।
इतीह दूरान्तरितोऽपि देहिनां भवत्यवश्यं विहितः समागमः ॥
इति नरवाहनदत्तो निजसचिवाद्रमुखास्कथां श्रुत्वा ।
अद्भुतविचित्ररुचिरां शक्तियशः सोत्सुकस्तुतोष तद् ॥